SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ नीतिवाक्यामृते टीका--नास्ति न विद्यते । किं तत् ? भयं । केषु ? अकुलीनेषु । कस्मात् ? अपवादात् अपकीर्त्तः । तथा च वल्लभदेवः-- कथंचिदपवादस्य न वेत्ति कुलवर्जितः । तस्मात्तु भूभुजा कार्यो मंत्री न कुलवर्जितः ॥१॥ अथ भूयोऽप्यकुलीनानां मंत्रिणां स्वरूपमाह--- अलर्कविषवत् कालं प्राप्य विकुर्वते विजातयः ॥ १६ ॥ टीका-ये मंत्रिणो विजातयः कुलहीना भवन्ति ते कालमापल्लक्षणं दृष्ट्वा प्राप्य भूपतेरपकुर्वते विरुद्धा भवन्ति । कथं ? अलर्कविषवत् अलर्कशब्देन वाताभिभूतः श्वा प्रोच्यते तस्य दंष्ट्राविषमपि प्राप्ते काले प्रावृषि भूयोपि दंष्ट्राप्ररूढवणमपि नूतनं करोति । तद्वद्विजातयो मंत्रिणः कथमप्यपराधं भूपालकारितं प्रशान्तमपि प्रकटतां नयन्तीति । तस्माद्विजातयो मंत्रिणस्त्याज्याः । तथा च वादरायणः अमात्या कुलहीना ये पार्थिवस्य भवन्ति ते । आपत्काले विरुध्यन्ते स्मरन्तः पूर्वदुष्कृतं ॥१॥ अथ कुलीनानां मंत्रिणां स्वरूपमाह--- तदमृतस्य विषत्वं यः कुलीनेषु दोषसम्भवः ॥ १७ ॥ टीका--दोषसंभवं दुर्जनाः कथयन्ति । किं तदमृतस्य विषत्वं कदाचित्तेषां न भवति खलु निश्चयेन । तथा च रैभ्यः यदि स्याच्छीतलो वन्हिः सोष्णस्तु रजनीपतिः। अमृतं च विषं भावि तत्कुलीनेषु विक्रिया ॥१॥ अथ ज्ञानिनो मंत्रिणो ज्ञानं यथा वृथा स्यात्तदाहघटप्रदीपवत्तज्ज्ञानं मंत्रिणो यत्र न परप्रतिबोधः ॥१८॥ १ कथं चिदपवादं स न वेत्ति कुलवर्जितः इति सुष्ठू दृश्यते । Jain Education International For Private & Personal Use Only ___www.jainelibrary.org
SR No.003150
Book TitleNiti Vakyamrutam Satikam
Original Sutra AuthorSomdevsuri
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari, Literature, Ethics, G000, & G999
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy