SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ मंत्रिसमुद्देशः। ११३ ____टीका-यत्र ज्ञाने शरीरस्थे परप्रतिबोधो न भवति अन्यस्य प्रतिबोधः कर्तुं न शक्यते । तज्ज्ञानं किंविशिष्टं ? घटप्रदीप इव यथा घटमध्ये विधृतः प्रज्वलितोऽपि दीपो बाह्यप्रदेशप्रकाशं न करोति तथा सर्वगुणयुक्तोऽपि मंत्री भूपति प्रतिबोधयितुं न शक्नोति । तस्य ते सर्वेऽपि गुणा निष्फला इति । तथान्यस्यापि सामान्यस्य यज्ज्ञानं तद्यदि अन्यस्य संक्रामयितुं न शक्यते तद्धटप्रदीप इव । तथा च वर्ग: सुगुणाढ्योऽपि यो मंत्री नृपं शक्तो न बोधितुम् । नान्योन......वत्यन्ते गुणा घटदीपवत् ॥१॥ अथ शास्त्रस्य निष्फलत्वं यथा भवति तथाह तेषु शस्त्रमिव शास्त्रमपि निष्फलं येषां प्रतिपक्षदर्शनाद्भयमन्वयंति चेतांसि ॥ १९ ॥ टीका-तेषु मंत्रिषु पण्डितेषु वा व्यर्थ शस्त्रमिव शास्त्रमपि। येषां किं ? येषामन्वयंति आश्रयन्ति । कानि? चेतांसि । किं तत् ? भयं । कस्मात् ? विपक्षदर्शनात् प्रतिवादिदर्शनात् । सायुधस्य नरस्य भयविशिष्टे चेतसि तदायुधं निष्फलमिति । तथा च बादरायण:--- यथा शस्त्रज्ञस्य शास्त्रं व्यर्थं रिपुकृताद्भयात् । शास्त्रज्ञस्य तथा शास्त्रं प्रतिवादिभयाद्भवेत् ॥१॥ अथ शास्त्रस्य शस्त्रस्य च यथा निष्फलत्वं भवति तदाह--- तच्छस्त्रं शास्त्रं वात्मपरिभवाय यन्न हन्ति परेषां प्रसरं।२०। यच्छत्रणां प्रसरं वेगं न हन्त्यागच्छमानानां तच्छस्त्रं शास्त्रं वात्मप. रिभवाय भवति । एतदुक्तं भवति शस्त्रेण विद्यमानेन शत्रोंरागच्छमानस्य १ये दुर्जनाः कुलीनेषु पुरुषषु दोषं सम्भावयन्ति तेऽमृतस्य विषत्वं कथयन्ति यतो यथा यदमृतं तदमृतमेव न विषं भवितुमर्हति तथा कुलीनाः कुलीना एव न दोषवन्त इति तात्पर्यम् । पूर्वपृष्टादागतं। तदमृतस्य विषत्वमित्यस्य टिप्पणं । नीति०-८ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003150
Book TitleNiti Vakyamrutam Satikam
Original Sutra AuthorSomdevsuri
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari, Literature, Ethics, G000, & G999
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy