SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ नीतिवाक्यामृते यो न प्रहरति स तेन न वध्यते । तथा शास्त्रं पठमानो यो वादिने न प्रत्युत्तरं प्रयच्छति तुष्णीमास्ते स लघुतां याति । यथा च नारद: शत्रोर्वा वादिनो वापि शास्त्रेणैवायुधेन वा। विद्यमानं न हन्याद्यो वेगं स लघुतां व्रजेत् ॥ १॥ अथ कापुरुषस्य मूर्खस्य सुखं यद्भवति तदाहन हि गलिबलीवर्दो भारकर्मणि केनापि युज्यते ॥ २१ ॥ टीका-यः कापुरुषो भवति शस्त्रं न गृह्णाति तथा मूों भवति तं कश्चित्स्वामी युद्धाय न प्रेरयति मूर्ख च वादाय ( न ) नियोजयति । तथात्र दृष्टान्तेन तदर्थ प्रतिपादयति-न हि गलिवलीवर्दो भारकमणि युज्यते नारोपितः सुखी स्यात् । तथा च वल्लभदेवः गुणानामेव दौर्जन्याद् धुरि धुर्यो नियुज्यते। असातकिरणस्कन्धः सुखं याति गौर्गलिः? ॥१॥ अथ भूपतीनां कार्यारम्भो यादृग्भवति तमाहमंत्रपूर्वः सर्वोप्यारंभः क्षितिपतीनाम् ॥ २२ ॥ टीका-क्षितिपतीनां राज्ञां यः प्रयोजनारम्भः षाड्गुण्यलक्षणः स मंत्रपूर्वः प्रथमं मंत्रिभिः सह मंत्रयित्वा ततः सर्वः प्रारभ्यते न मंत्रबाह्यः । तथा च शुक्रः-- अमंत्रसचिवैः साई यः कार्य कुरुते नृपः। तस्य तनिष्फलं भावि षण्ढस्य सुरतं यथा ॥१॥ मंत्रस्य यत्साध्यं तदाह अनुपलब्धस्य ज्ञानमुपलब्धस्य निश्चयो निश्चितस्य बलाधानमर्थद्वैधस्य संशयच्छेदनमेकदेशदृष्टस्याशेषोपलब्धिरिति मंत्रसाध्यमेतत् ॥२३॥ १ असंमर्दितककुम्। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003150
Book TitleNiti Vakyamrutam Satikam
Original Sutra AuthorSomdevsuri
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari, Literature, Ethics, G000, & G999
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy