SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ मंत्रिसमुद्देशः । ११५ टीका - एतत् पंचपदार्थलक्षणं भूपतीनां मंत्रसाध्यं मंत्र विना न सिद्ध्यतीत्यर्थः । तत्र तावदनुपलब्धस्याज्ञातस्य पदार्थस्य ज्ञानं यच्छत्रुमध्यं न ज्ञायतेऽन्यस्य वा कस्यचित् गुरुवस्तुनि तन्मंत्रेण ज्ञायते गुप्तचरैः शोध्यते ततो ज्ञायते । ज्ञातस्य निश्चयो निश्चितस्य बलाधानं तस्य क्रमेणार्थद्वैधस्य संशयपरिच्छेदः । यदेको गुप्तचरो वदति तदज्ञो (न्यो ) ऽन्यथा ब्रूते स द्वैधीभावो भवति । तृतीयं प्रेषयित्वा निःसन्देहं यथा भवति तथा कार्य । तथा एकदेशदृष्टस्य चरैः सर्वस्योपलब्धिः कार्या । तथा च गुरु: - अज्ञातं शत्रुसैन्यं च चरैर्ज्ञेयं विपश्चिता । तस्य विज्ञातमध्यस्य कार्ये सिद्धं न वेति च ॥ १ ॥ अथ मंत्रिणां लक्षणमाह अकृतारम्भमारब्धस्याप्यनुष्ठानमनुष्ठितविशेषं विनियोगसम्पदं च ये कुर्युस्ते मन्त्रिणः ॥ २४ ॥ टीका -- अकृतस्य पदार्थस्य ये मंत्रशक्त्यारम्भं कुर्युः, तथारब्धस्यानुष्ठानं कर्मवृद्धिः अनुष्ठितस्य विशेषं विनियोगसम्पदं च कर्म कुर्युस्ते मंत्रिणः कथ्यन्ते । तथा च शुक्रः " दर्शयन्ति विशेषं ये सर्वकर्मसु भूपतेः । स्वाधिकारप्रभावं च मंत्रिणस्तेऽन्यथा परे ॥ १ ॥ अथ मंत्रस्य लक्षणमाह A कर्मणामारम्भोपायः पुरुषद्रव्यसम्पद्देशकालविभागो विनिपातप्रतीकारः कार्यसिद्धिचेति पंचांगो मंत्रः ॥ २५ ॥ टीका --- सर्वेषां कृत्यानां तावदुपायः सामभेदोपप्रदानलक्षणचिन्तनीयः अनेनोपायेनैतत्कृत्यं सिद्धिं यास्यतीति । उक्तं च यतः www.jainelibrary.org Jain Education International For Private & Personal Use Only
SR No.003150
Book TitleNiti Vakyamrutam Satikam
Original Sutra AuthorSomdevsuri
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari, Literature, Ethics, G000, & G999
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy