SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ नीतिवाक्यामृते कार्यारंभेषु नोपायं तत्सिद्धयर्थं च चिन्तयेत् । यः पूर्व तस्य नो सिद्धिं तत्कार्य याति कर्हिचित् ॥१॥ तथा पुरुषद्रव्यसम्पच्चिन्तनीया । सम्पच्छब्देन सामर्थ्यमुच्यतेऽनेन पुरुषेणैतेन द्रव्येणैतत्कार्य सिद्धयति । उक्तं च यत:-- समर्थं पुरुषं कृत्ये तदहं च तथा धनम् । .. योजयेद्यो न कृत्येषु तसिद्धिं तस्य नो व्रजेत् ॥ १॥ तथा च देशकालविभागो भूभुजा चिन्तनीयः, अस्मिन् देशे यावनसैन्धवे ? अस्मिन् काले वसन्तशरलक्षणे मम यात्रासिद्धिर्भविष्यतीति । उक्तं च यतः-- यथात्र सैन्धवस्तोयस्थले मत्स्यो विनश्यति। शीघ्र तथा महीपालः कुदेशं प्राप्य सीदति ॥ १॥ यथा काको निशाकाले कौशिकश्च दिवा चरन । स विनश्यति कालेन तथा भूपो न संशयः ॥२॥ तथा विनिपातप्रतीकारश्चिन्तनीयः विनिपातशब्देनापदभिधीयते तस्याः प्रतीकार उपशमश्चिन्तनीयः कथमेषा यास्यति । उक्तं च यतः- आपत्काले तु सम्प्राप्ते यो न मोहं प्रगच्छति। उद्यमं कुरुते शत्तया स तं नाशयति ध्रुवं ॥१॥ तथा कार्यसिद्धिश्चिन्तनीया । सामादिभि ( रुपायै ) यो कार्यसिद्धि प्रचिन्तयेत् न निर्वेगं क्वचिद्याति तस्य तत्सिद्धयति ध्रुवं ॥१॥ अथ यत्र स्थाने मंत्रं कुर्यात्तदाहआकाशे प्रतिशब्दवति चाश्रये मंत्रं न कुर्यात् ॥ २६ ॥ टीका-आकाशे आश्रयरहिते न मंत्रः कार्यः । तथा प्रतिशब्दवति चाश्रये यत्राश्रये स्थाने प्रतिशब्दः सञ्जायते तत्रापि मंत्रो न कार्यः । कदाचित्कश्चिद्गुप्तस्तत्र स्थित्वा आकर्णयति । तथा च गुरुः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003150
Book TitleNiti Vakyamrutam Satikam
Original Sutra AuthorSomdevsuri
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari, Literature, Ethics, G000, & G999
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy