SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ मंत्रिसमुद्देशः । निराश्रयप्रदेशे तु मंत्र: कार्यो न भूभुजा I प्रतिशब्दो न यत्र स्यान्मंत्रसिद्धिं प्रवाञ्छता ॥ १ ॥ अथाकारैर्यथा विचक्षणो मंत्रो ज्ञायते तदाहमुखविकारकराभिनयाभ्यां प्रतिध्वानेन वा मनःस्थमप्यर्थमभ्युद्यन्ति विचक्षणाः ॥ २७ ॥ टीका --- यदि किंचिद्गदति राजा तदपि मुखविकारं दृष्ट्वा विचक्षणो दूतः समागतः तन्मंत्रं हृदि स्थितं जानाति । तथा कराभिनयेन हस्तचलनेन जानाति । प्रतिध्वानेन प्रतिशब्देन जानातीति तथा एते विकारा दूता रक्षणीयाः । तथा च वल्लभदेव ः— ११७ आकारैरिंगितैर्गत्या चेष्टया भाषणेन च । नेत्रवक्त्रविकारेण गृह्यतेऽन्तर्गतं मनः ॥ १ ॥ अथ यथा रक्षितव्यो मंत्रस्तदाह आ कार्यसिद्धे रक्षितव्यो मंत्रः ॥ २८ ॥ टीका -आङ पर्यन्तवाचकः यावन्मंत्रं कृता कार्यस्य सिद्धिर्न भवति तावदक्षितव्यः । तथा च विदुर: एकं विषरेसो ? हन्ति शस्त्रेणैकश्च वध्यते । सराष्ट्रं सप्रजं हन्ति राजानं धर्मविप्लवः ॥ १ ॥ अथापरीक्ष्य मंत्रयमाणस्य यद्भवति तदाह- दिवा नक्तं वापरीक्ष्य मंत्रयमाणस्याभिमतः प्रच्छन्नो वा भिनत्ति मंत्रम् ॥ २९ ॥ टीका - मंत्रभेदभयात् दिवा नक्तं वा परीक्ष्य पार्श्वान् मंत्रं कुर्यात् यत् अभिमतः प्रच्छन्नः स्थित आत्मीयः शृणोति ततो मंत्र भिनत्त्यात्मीयोऽपि । तथा च वृत्तान्त: श्रूयते किल रजन्यां वटवृक्षे प्रच्छन्नो वररुचिरप्रशिखेति पिशाचेभ्यो वृत्तान्तमुपश्रुत्य चतुरक्षराद्यैः पादैः श्लोकं चकारेति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003150
Book TitleNiti Vakyamrutam Satikam
Original Sutra AuthorSomdevsuri
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari, Literature, Ethics, G000, & G999
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy