SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ ११८ नीतिवाक्यामृते टीका-एतद्वररुचिवृत्तान्तवदनं गुरुतरं बृहत्कायां ज्ञेयं, अप्रशिखेति पुनश्चतुर्भिरक्षरैराद्यैर्यः कृतः श्लोकः स लिख्यते अनेन तव पुत्रस्य प्रविष्टेस्य वनान्तरे । शिखामाकृष्यपादेन खड्ड्रेनोपहतं शिरः ॥१॥ अथ यैः सह मंत्रो न कार्यस्तानाहन तैः सह मंत्रं कुर्यात् येषां पक्षीयेष्वपकुर्यात् ॥ ३१ ॥ टीका-येषां पक्षीयेषु बान्धवादिषु अपकुर्यात् वधबन्धादिकं कुर्यात् तैः सह मंत्रं न कारयेत् यतस्ते मंत्रभेदं चक्रुः । तथा च शुक्रः येषां वधादिकं कुर्यात्पार्थिवश्च विरोधिनां। तेषां सम्बन्धिभिः सार्द्ध मंत्रः कार्यों न कर्हि चित् ॥१॥ अथ मंत्रकाले राज्ञां समीपे येन स्थातव्यं तमाह. - अनायुक्तो मंत्रकाले न तिष्ठेत् ॥ ३२ ॥ टीका-अनायुक्तोऽप्रोक्तो भूभुजा, मंत्रकाले न तिष्ठेत् । यतो यद्यपीष्टः स्यात्तथाप्यनेनापि द्वारेण मंत्रभेदो भवतीति सशंकः स्यात् । तथा च शुक्रः यो राज्ञो मंत्रवेलायामनाहूतः प्रगच्छति । अतिप्रसादयुक्तोऽपि विप्रियत्वं ब्रजेद्धि सः॥१॥ तथा च श्रूयते शुकसारिकाभ्यामन्यैश्च तिर्यग्भिमत्रभेदः ३३ टीका-गतार्थमेतत् । एषा कथा बृहत्कायां कथिता ज्ञातव्येति । अथ मंत्रभेदाद्यादृग्व्यसनं जायते तदाह-- मंत्रभेदादुत्पन्नं व्यसनं दुष्प्रतिविधेयं स्यात् ।। ३४ ॥ १ प्रसुप्तस्येत्यपि पाठान्तरं । २ आरुह्येति पाठान्तरम् । ३ खङ्गेन निहतं इत्यपि पाठान्तरम् । Jain Education International For Private & Personal Use Only ___www.jainelibrary.org
SR No.003150
Book TitleNiti Vakyamrutam Satikam
Original Sutra AuthorSomdevsuri
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari, Literature, Ethics, G000, & G999
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy