SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ मंत्रिसमुद्देशः। टीका-यन्मंत्रभेदाद्यादृग्व्यसनं जायते तदुष्प्रतिविधेयं दुःखेन तस्य प्रतिविधानं नाशः क्रियते [अ] प्रतिविधानं तस्य व्यसनस्य कष्टेनापि न याति तस्मान्मंत्रभेदो रक्षितव्यः । तथा च गर्गः मंत्रभेदाच्च भूपस्य व्यसनं संप्रजायते । तत्कृच्छान्नाशमभ्येति कृच्छेणाप्यथवा न वा ॥१॥ अथ मंत्रभेदस्य यानि कारणानि भवन्ति तान्याहइङ्गितमाकारो मदःप्रमादो निद्रा च मंत्रभेदकारणानि ॥३५॥ इङ्गितमन्यथावृत्तिः ॥३६॥ कोपप्रसादजनिता शारीरी विकृतिराकारः ॥ ३७॥ पानस्त्रीसंगादिजनितो हर्षो मदः ॥ ३८ ॥ प्रमादो गोत्रस्खलनादिहेतुः ॥ ३९ ॥ अन्यथा चिकीर्षतोन्यथावृत्तिा प्रमादः॥४०॥ निद्रान्तरितः ॥४१॥ टीका-एतानि पंच मंत्रभेदस्य निमित्तान्युच्यन्ते । प्रथममिगितं तावत्, मंत्रे मंत्रिते इंगितं चेष्टितं यद्भवति राज्ञस्तेन गुप्तचरा मंत्रमध्यं जानन्तीति । तथाऽऽकारः शरीरस्य रौद्रत्वेन सौम्यत्वेन वा, तेन मंत्रमध्यं जानन्तीति । तथा मदेन, यतो मदेन पीतेन हृदयस्थमुद्गिरति । तथा प्रमादेन क्षतेन, ( गोत्रस्खलनेन ) यन्मंत्रमन्यः शृणोति । तथा निद्रायमाणो निद्रान्तरितः पुमान् हृदयस्थमुद्गिरति । तथा च वशिष्ठः-- मंत्रयित्वा महीपेन कर्तव्यं शुभचेष्टितम् । आकारश्च शुभः कार्यस्त्याज्या निद्रामदालसाः ॥१॥ १ त्रुटितरूपेणावभाति। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003150
Book TitleNiti Vakyamrutam Satikam
Original Sutra AuthorSomdevsuri
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari, Literature, Ethics, G000, & G999
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy