SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ १२० नीतिवाक्यामृते ___ आचार्येणेंगितादीनां विशेषेण “ इङ्गितमन्यथावृत्तिः " इत्यादिभिः सूत्रैर्लक्षणं प्रोक्तं तद्गतार्थत्वान्नोच्यते । अथ मंत्रे मंत्रिते नृपेण यत्कर्तव्यं तदाहउद्धृतमंत्रो न दीर्घसूत्रः स्यात् ॥ ४२ ॥ टीका-यदोद्धतः कृतो मंत्रस्तदर्थ न दीर्घसूत्रः स्यात् न. विलम्बः कार्यस्तत्क्षणादेवानुष्ठीयत इति । तथा च शुक्रः यो मंत्र मंत्रयित्वा तु नानुष्ठानं करोति च। तत्क्षणात्तस्य मंत्रस्य जायते नात्र संशयः॥१॥ अथ मंत्रे कृते तत्क्षणान्नानुष्ठिते यद्भवति तदाहअननुष्ठाने छात्रवत्कि मंत्रेण ॥४३॥ टीका--यथा छात्रः शिष्य उपाध्यायसकाशान्मंत्रं गृहीत्वा तदर्हमनुष्ठानं जपादिकं न करोति किं तस्यापि तेन मंत्रेण व्यर्थेनेति । तथा च शुक्रः यो मंत्र मंत्रयित्वा तु नानुष्ठानं करोति च । स तस्य व्यर्थतां याति च्छात्रस्येव प्रमादिनः ॥१॥ अथ मंत्रस्याननुष्ठितस्य दृष्टान्तमाह- ... न ह्यौषधिपरिज्ञानादेव व्याधिप्रशमः ॥४४॥ टीका--न मंत्रेण मंत्रितेनानुष्ठानरहितेन कार्यसिद्धिर्भवति यथा व्याधिग्रस्तस्य भेषजपरिज्ञानेन केवलेन न सिद्धिर्भवति भक्षणं विना तथा मंत्रेणाप्यनुष्ठानवर्जितेन । तथा च नारदः विज्ञाते भेषजे यद्वत् विना भक्षं न नश्यति । व्याधिस्तथा च मंत्रेऽपि न सिद्धिः कृत्यवर्जिते ॥१॥ अन्यो द्वितीयः प्राणिनां यः शत्रुस्तमाहनास्त्यविवेकात्परः प्राणिनां शत्रुः॥ ४५ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003150
Book TitleNiti Vakyamrutam Satikam
Original Sutra AuthorSomdevsuri
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari, Literature, Ethics, G000, & G999
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy