________________
मंत्रिसमुद्देशः ।
१२१
टीका — अविवेकादव्यवहाराद् द्वितीयो मनुष्याणां शत्रुर्नास्ति स एव
यतः शत्रुवधबन्धाद्यं करोति । तथा च गुरुः
▬▬▬▬▬▬▬▬▬▬▬▬▬▬
अविवेकः शरीरस्थो मनुष्याणां महारिपुः । यश्चानुष्ठानमात्रोऽपि करोति वधबन्धनम् ॥ १ ॥
अथात्मसाध्यमन्यसकाशात्साधयितुर्यद्भवति तदाहआत्मसाध्यमन्येन कारयन्नौषधमूल्यादिव व्याधिं चिकित्सति ॥ ४६ ॥
टीका - यो मूर्ख आत्मसाध्यं प्रयोजनं अन्यस्य पार्श्वात् कारयेत् । स किं करोति ? भेषजमूल्येन व्याधिचिकित्सां करोति वैद्यकं ? औषधस्य यत्किचिन्मूल्यं भवति तेनान्यद्गृहीत्वा भक्षयति । समर्थ ? यदि तेन तस्य व्याधिक्षयो भवति तदन्यस्यापि पार्श्वात्कारिते प्रयोजने सिद्धिर्भवति तस्मादात्मसाध्यमात्मनैव क्रियते नान्यस्य पार्श्वत्कारापणीयमिति । तथा
च भृगुः
आत्मसाध्यं तु यत्कार्यं योऽन्यपाश्र्वात्सुमन्दधीः । कारापयति स व्याधिं नयेद्भेषजमूल्यतः ॥ १ ॥ अथ भृत्यस्वामिनोर्यद्भवति तदाह
यो यत्प्रतिबद्धः स तेन सहोदयव्ययी ॥ ४७ ॥ टीका– यो यस्मिन् स्वामिनि भृत्यः प्रतिबद्धः स्वामिनोभ्युदयेन
तस्याभ्युदयः, व्ययेन नाशो विनाश इति । तथा च भागुरि:
सरस्तोमसनो राजा भृत्यः पद्माकरोपमः ।
तद्वृद्धया वृद्धिमत्येति तद्विनाशे विनश्यति ॥ १ ॥ अथ स्वाम्याश्रितस्य यद्भवति तदाहस्वामिनाधिष्ठितो मेषोऽपि सिंहायते ॥ ४८ ॥ टीका - स्वामिपरिकरित: कापुरुषोऽपि भृत्यो वीरायते । तथा च रैभ्य:
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org