SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ १२२ नीतिवाक्यामृते स्वामिनाधिष्ठितो भृत्यः परस्मादपि कातरः। श्वापि सिंहायते यद्वन्निजं स्वामिनमाश्रितः॥१॥ तथा मंत्रकाले मंत्रिभिर्यत्कर्तव्यं तदाहमंत्रकाले. विगृह्य विवादः स्वैरालापश्च न कर्तव्यः ॥४९॥ टीका-मंत्रकाले मंत्रिभिर्विगृह्य विवादो विरोधविवादो न कार्यः । तथा स्वैरालापश्च शूरी ? न कार्यः । तथा च गुरु: विरोधवाक्यहास्यानि मंत्रकाल उपस्थिते । ये कुर्युमंत्रिणस्तेषां मंत्रकार्यं न सिद्धयति ॥१॥ अथ मंत्रस्य स्वरूपमाह अविरुद्धैरस्वैरैर्विहितो मंत्रो लघुनोपायेन महतः कार्यस्य सिद्धिमत्रफलम् ॥ ५० ॥ टीका-अविरुद्धरस्वैर्यो मंत्रः क्रियते स लघूपायेन स्तोकक्केशेन महतोऽपि कृत्यस्य सिद्धिं जनयति सदैव मंत्रः । तथा च नारदः सावधानाश्च ये मंत्रं चक्रुरेकान्तमाश्रिताः। साधयन्ति नरेन्द्रस्य कृत्यं क्लेशविवर्जितम् ॥१॥ अथ भूयोऽपि मंत्रमाहात्म्यमाहन खलु तथाहस्तेनोत्थाप्यते ग्रावा यथा दारुणा ।। ५१ ॥ टीका-पावा पाषाणस्तथा हस्तेन नोत्थाप्यते स्थानाच्चाल्यते, दारुणा काष्ठेन यथा । मंत्रेणति । तथा च हारीतः यत्कार्यं साधयेद्राजा क्लेशैः संग्रामपूर्वकैः । मंत्रेण सुखसाध्यं तत्तस्मान्मत्रं प्रकारयेत् ॥१॥ अथ मंत्रिरूपशत्रुस्वरूपमाह--- १ लघुनोपायेन महतः कार्यस्य सिद्धिर्मत्रफलं इति मुद्रितपुस्तके सूत्रम् । २ एवं महदपि कार्य मंत्रणाल्पायासेन सिद्धयति न पुनरन्यथेति भावः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003150
Book TitleNiti Vakyamrutam Satikam
Original Sutra AuthorSomdevsuri
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari, Literature, Ethics, G000, & G999
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy