SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ मंत्रिसमुद्देशः । स मंत्री शत्रुर्यो नृपेच्छयाकार्यमपि कार्यरूपतयानुशास्ति ॥ ५२ ॥ टीका—स मंत्री न भवति स शत्रुः सचिवरूपेण । यः किं कुर्यात् ? यो नृपेच्छया स्वच्छंदे नाकार्यमप्यकृत्यमपि कार्यतया कृत्यवृत्या अनुशास्ति तत्तस्य कथयति । तथा च भागुरि: अकृत्यं ( कृत्य ) रूपं च सत्यं चाकृत्य संशितां । निवेदयति भूपस्य स वैरी मंत्रिरूपधृक् ॥ १ ॥ अथ भूपस्य कृत्याकृत्यनिवेदने यथा मंत्रिणा भाव्यं तदाहवरं स्वामिनो दुःखं न पुनरकार्योपदेशेन तद्विनाशः ॥ ५३ ॥ टीका — मंत्रिणा नृपस्य वरं कठोरवचनैर्दुःखमुत्पादितं यत्परिणामे सुखावहं न पुनः कर्णाल्हादकरं परिणामविनाशकारि वक्तव्यं । तथा च नारदः - ――――― -- वरं पीडाकरं वाक्यं परिणामसुखावहं । मंत्रिणा भूमिपालस्य न मृष्टं यद्भयानकम् ॥ १ ॥ अथ बलात्कारेणापि नृपस्य यक्क्रियते तदाह दृष्टान्तद्वारेणपीयूषमपि तो बालस्य किं न क्रियते कपोलहननं ॥ ५४ ॥ टीका - पीयूषं स्तनदुग्धं यो न पिबति तस्य किं जननी न कुरुते कपोलननं तद्धिताय । एवं मंत्रिणापि नृपतिहिताय कठोरमपि वाच्यम् । तथा च गर्ग: जननी बालकं यद्वद्धत्वा स्तन्यं प्रपाययेत् । एवमुन्मार्गगो राजा धार्यते मंत्रिणा पथि ॥ १ ॥ अथ मंत्रिभिर्यत्कृत्यं तदाह १२३ Jain Education International मंत्रिणो राजद्वितीयहृदयत्वान्न केनचित्सह संसर्गं कुर्युः ।। ५५॥ टीका- - न कस्यचित्तैर्मिलनीयं । तथा च शुक्रः 1 For Private & Personal Use Only www.jainelibrary.org
SR No.003150
Book TitleNiti Vakyamrutam Satikam
Original Sutra AuthorSomdevsuri
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari, Literature, Ethics, G000, & G999
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy