________________
१२४
नीतिवाक्यामृते
मंत्रिणः पार्थिवेन्द्राणां द्वितीयं हृदयं ततः।
ततोन्येन न संसर्गस्तैः कार्यों नृपवृद्धये ॥१॥ तथा राज्ञां मंत्रिणा सह यद्भवति तदाहराज्ञोऽनुग्रहविग्रहावेव मंत्रिणामनुग्रहविग्रहौ ।। ५६ ।। टीका-यो राज्ञोऽनुग्रहः समृद्धिभावः स मंत्रिणामप्यनुग्रहः समृद्धिलक्षणः । यश्च पुंसा राज्ञो विग्रहो व्यसनं तन्मंत्रिणामपि । तथा च हारीतः
राज्ञः पुष्टया भवेत्पुष्टिः सचिवानां महत्तरा।
व्यसनं व्यसनेनापि तेन तस्य हिताश्च ये ॥१॥ अथ मंत्रिणां नृपकार्योद्यतानां यत्कार्यं न सिद्धयति तदर्थमाहस देवस्यापराधो न मंत्रिणां यत्सुघटितमपि कार्य न घटते ॥ ५७ ॥
टीका-पूर्वोक्तसूत्रार्थन मंत्रिणः सदैव नृपकृत्ये सावधाना भवन्ति यत्सावधानानामपि तेषां न सिद्धयति स दैवस्य प्राक्तनकर्मणो दोषः, न तेषां, ते पुनः सावधाना नृपकृत्येषु । तथा च भार्गवः
मंत्रिणां सावधानानां यत्कार्यं न प्रसिद्धयति।
तत्स दैवस्य दोषः स्यान्न तेषां सुहितैषिणाम् ॥१॥ अथ राज्ञः स्वरूपमाहस खलु नो राजा यो मंत्रिणोऽतिक्रम्य वर्तेत ॥ ५८ ॥ टीका-यो राजा मंत्रिभिरुक्तानि वचनानि न करोति तान्यतिकामति स खलु निश्चयेन राजा न भवति नश्यतीत्यर्थः। तथा च भारद्वाज:----
यो राजा मंत्रिणां वाक्यं न करोति हितैषिणां।
न स तिष्ठेच्चिरं राज्ये पितृपैतामहेऽपि च ॥१॥ अथ भूयोऽपि मंत्र माहात्म्यमाह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org