SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ मंत्रिसमुद्देशः। १२५ सुविवेचितान्मंत्राद्भवत्येव कार्यसिद्धिर्यदि स्वामिनो न दुराग्रहः स्यात् ॥ ५९॥ टीका-यदि स्वामिनो नृपस्य न दुराग्रहो दुष्ट एकप्रहः स्यात् । तत्सुविवेचितात्सुष्टु पर्यालोचितान्मंत्रात्कार्यसिद्धिर्भवत्येव नियमेन । तथा च ऋषिपुत्रक:-- सुमंत्रितस्य मंत्रस्य सिद्धिर्भवति शाश्वती। यदि स्यान्नान्यथाभावो मंत्रिणा सह पार्थिवः ॥ १ ॥ अथ नृपस्य विक्रमरहितस्य यद्भवति तदाहअविक्रमतो राज्यं वणिक्खगयष्टिरिव ॥ ६०॥ टीका-यथा श्रेष्ठिनः खड्गयष्टिः वृथा इत्यर्थः तथा राज्यमपि व्यर्थ विक्रमपरैरभिभूयत एवेति । तथा च भारद्वाजः-- परेषां जायते साध्यो यो राजा विक्रमच्युतः। न तेन सिध्यते किंचिदसिना श्रेष्ठिनो यथा ॥१॥ अथ नीतिरनुष्ठिता यत्करोति तदाहनितिर्यथावस्थितमर्थमुपलम्भयति ॥ ६१ ॥ टीका-नीतिर्नयो यथावस्थितं [ तौ यदुक्तं तत्सर्वमुपलम्भयति प्रयच्छति न सन्देहस्तस्मान्नीतिः कार्या । तथा च गर्ग: मातापि विकृतिं याति नैव नीतिः स्वनुष्ठिता । अनीतिर्भक्षयेन्मयं किंपाकमिव भक्षितम् ॥ १॥ अथ हिताहितप्राप्तिर्यथा भवति तदाहहिताहितप्राप्तिपरिहारौ पुरुषकारायतौ ॥ ६२॥ टीका-हितपदार्थस्य प्राप्तिरनुष्ठानं, अहितस्य परिहारस्त्यागो द्वावप्यैतौ पुरुषकारायतौ पुरुषकार आत्मशक्तिः । दुर्लभमपि हितं यद्वस्तु तत्पुरुषकारः साधयति । बहुलाभमप्यहितमात्मा शक्तीन्द्रियाणि जित्वा परिहरतीति । तथा च वादरायणः-- Jain Education International For Private & Personal Use Only ___www.jainelibrary.org
SR No.003150
Book TitleNiti Vakyamrutam Satikam
Original Sutra AuthorSomdevsuri
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari, Literature, Ethics, G000, & G999
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy