SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ १२६ नीतिवाक्यामृते हितं वाप्यथवानिष्टं दुर्लभं सुलभं च वा । आत्मशक्तयाप्नुयान्मयो हितं चैव सुलाभदं ॥१॥ अथ राज्ञो यत्कृत्यं तदाहअकालसहं कार्यमद्यस्वीनं न कुर्यात् ॥ ६३ ॥ टीका-अकालसहं कालक्षेपं न सहते यत्कार्य तदद्यस्वीनं कालातिक्रमेण न कार्य । तथा च चारायणः-- यस्य तस्य हि कार्यस्य सफलस्य विशेषतः। क्षिप्रमक्रियमाणस्य कालः पिबति तत्फलम् ॥१॥ अथ कार्यस्य कालातिक्रमेण यो दोषस्तमाहकालातिक्रमानखच्छेद्यमपि कार्य भवति कुठारच्छेद्यं ॥६४॥ टाका-कालातिक्रमेण यत्कार्य क्रियते तन्नखच्छेद्यमपि कुठारच्छेद्यं स्यात् । एतदुक्तं भवति, स्वल्पायासेन साध्यमपि महता कृच्छ्रेण प्रसिद्धयति । तथा च शुक्रः तत्क्षणान्नात्र यत्कुर्यात् किंचित्कार्यमुपस्थितम् । स्वल्पायासेन साध्यं चेत्तत्कृच्छ्रेण प्रसिद्धयति ॥१॥ अथ विज्ञः पुरुषो यत्कुर्यात्तदाह को नाम सचेतनः सुखसाध्यं कार्य कृच्छ्रसाध्यमसाध्यं वा कुर्यात् ॥ ६५॥ ____टीका--नामेति कोमलामंत्रणे । अहो सचेतनः सन् जानन् सन् सुखेन कार्य सिद्धयति तत्कृच्छ्रसाध्यं करोति असाध्यं वा यन्न कदाचित्सिद्धयतीति । तथा च गुरु: सुखसाध्यं च यत्कार्य कृच्छ्रसाध्यं न कारयेत् । असाध्यं वा मतिर्यस्य भवेच्चिक्षे ? निरर्गला ॥१॥ अथ मंत्रिणमुद्दिश्याह १क्रियमाणस्य Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003150
Book TitleNiti Vakyamrutam Satikam
Original Sutra AuthorSomdevsuri
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari, Literature, Ethics, G000, & G999
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy