SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ मंत्रिसमुद्देशः। १२७ एको मंत्री न कर्तव्यः ॥ ६६ ॥ टीका-गतार्थमेतत् । अथैकस्य मंत्रिणो दूषणमाहएको हि मंत्री निरवग्रहश्चरति मुह्यति च कार्येषु कृच्छ्रेषु।६७ टीका–हि यस्मादेको हि मंत्री निरवग्रहः स्वेच्छया चरति न शंका करोति तथा कार्येषु कृच्छेषु प्रयोजनं ? सन्देहेषु मुह्यति कर्तव्यं न जानातीत्यर्थः । तथा च नारदः एको मंत्री कृतो राज्ञा स्वेच्छया परिवर्तते । न करोति भयं राज्ञः कृत्येषु परिमुह्यति ॥१॥ टीका-अथ मंत्रियुगलस्य यत्कृत्यं तदाहद्वावपि मंत्रिणौ न कार्यों ॥ ६८ ॥ टीका--गतार्थमेतत् । अथ मंत्रियुगलस्य दूषणमाहद्वौ मंत्रिणौ संहतौ राज्यं विनाशयतः ॥ ६९॥ टीका-द्वौ मंत्रिणौ संहतौ मिलितौ राज्यं विनाशयतस्तस्मान्न कायौँ । तथा च नारदः-- मंत्रिणां द्वितयं चेत्स्यात् कथंचित्पृथिवीपतेः । अन्योऽन्यं मंत्रयित्वा तु कुरुते विभवक्षयं ॥१॥ अथ मंत्रियुगलस्य यदि निग्रहं करोति तस्य यद्भवति तदाहनिगृहीतौ तौ तं विनाशयतः ।। ७० ॥ टीका-तौ मंत्रिणौ निगृहीतौ निगृह्यमाणो विनाशयतो राज्यविनाशं कुरुतः । यतो नृपपरिग्रहः सचिवायत्तो भवति । तथा च गुरु: भूपतेः सेवका ये स्युस्तस्युः सचिवसम्मताः। तैस्तैः सहायतां नीतैर्हन्युस्तं प्राणयाद्भयात् ॥१॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003150
Book TitleNiti Vakyamrutam Satikam
Original Sutra AuthorSomdevsuri
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari, Literature, Ethics, G000, & G999
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy