SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ १२८ नीतिवाक्यामृते अथ यत्प्रमाणा मंत्रिणः कार्यास्तत्प्रमाणमाहत्रयः पंच सप्त वा मंत्रिणस्तैः कार्याः ॥ ७१ ॥ टीका—गतार्थमेतत् । अथ सस्पर्धमंत्रिमेलापके एकमतं यादृग्भवति तदाहविषमपुरुषसमूहे दुर्लभमैकमत्यम् ॥ ७२ ॥ टीका-विषमपुरुषाः सस्पर्धी मंत्रिणस्तेषां समूहे मेलापके ऐकमत्यं एकमतं दुर्लभं भवतीति । तस्मात् सस्पर्धी मंत्रिणो न कार्याः । तथा च राजपुत्रःमिथः संस्पर्धमानानां नैकं संजायते मतं । स्पर्धाहीना ततः कार्या मंत्रिणः पृथिवीभुजा ॥१॥ अथ बहुभिर्मत्रिभिर्यद्भवति तदाह--- बहवो मंत्रिणः परस्परं स्वमतीरुत्कर्षयन्ति ॥ ७३ ॥ टीका--बहवो मंत्रिणः कृताः स्वमतीरुत्कर्षयन्ति प्रमाणतां नयन्ति । किविशिष्टाः सन्तः ? परस्परं सस्पर्धाः । तथा च रैभ्य: बहूंश्च मंत्रिणो राजा सस्पर्धान् करोति यः। घ्नन्ति ते नृपकार्य यत्स्वमंत्रस्य कृता बराः॥१॥ अथ स्वच्छंदा मंत्रिणो यादृक्षा भवन्ति तानुद्दिश्याहस्वच्छन्दाश्च न विजृम्भते ॥ ७४ ।। टीका-~यदा पुनस्ते मंत्रिणः स्वच्छन्दा भवन्ति न राजवश्या भवन्ति तदा न विजम्भते मिथी मंत्रं न मन्यन्ते मंत्रस्य दूषणं स्वाहं. कारेण कुर्वन्ति स्वस्वामिनः क्षतिः ( तिं च ) । तथा चात्रिः स्वच्छन्दा मंत्रिणो नूनं न कुर्वन्ति यथोचितं । - मंत्रं मंत्रयमाणाश्च भूपस्याहिताः स्मृताः ॥ १॥ ? अथ राज्ञा यादृक्कार्यमनुष्ठेयं तदाहयद्भहुगुणमनपायबहुलं भवति तत्कार्यमनुष्ठेयम् ॥ ७५ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003150
Book TitleNiti Vakyamrutam Satikam
Original Sutra AuthorSomdevsuri
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari, Literature, Ethics, G000, & G999
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy