SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ मंत्रिसमुद्देशः। .wwwwwwwwwwwwwwwwwwwwwww. टीका-किं बहुना राज्ञा यद्बहुगुणं कृत्यं भवति तत्कार्य । पुनरपि किंविशिष्टं ? अनपायबहुलं अपायो विनाशः न अपायबहुलं अनपायबहुलं बहुक्षमयुक्तमित्यर्थः । तथा च जैमिनिः यद्यच्छेष्ठतरं कृत्यं तत्तत्कार्य महीभुजा। नोपघातो भवेद्यत्र राज्यं विपुलमिच्छता ॥१॥ अथ राज्ञा यत्कृत्यं तदाहतदेव भुज्यते यदेव परिणमति ॥ ७६ ॥ टीका—गतार्थमेतत् । अथ यादृक् मंत्रिणो दोषो न स्यात् तमाह यथोक्तगुणसमवायिन्येकस्मिन् युगले वा मंत्रिणि न कोऽपि दोषः ॥ ७७॥ ___टीका-~-यद्यपि प्रागेको मंत्री निषिद्धो द्वावपि निषिद्धौ तथापि यद्येकस्मिन् युगले वा यथोक्तगुणसमवायिनि, कोर्थः ? युक्ते तन्न कोऽपि दोषः कार्य इति । अथ बहूनां मंत्रिणां मूर्खाणां निषेधे दृष्टान्तमाहन हि महानप्यन्धसमुदायो रूपमुपलभेत ॥ ७८॥ टीका-हि यस्मात्कारणात् महानपि प्रौढोऽपि अन्धसमुदायो मेलापको न रूपमुपलभेत जानातीति । अथ मंत्रियुगलस्य दोषपरिहारार्थ दृष्टान्तमाहअवार्यवीयौ धुर्यों किन्न महति भारे नियुज्यते ॥७९॥ टीका-अवार्य असंख्यं वीर्य बलं ययोस्तौ अवार्यवीयौं तौ द्वावपि किन्न नियुज्यते । कस्मिन् ? महति भारे । एवं मंत्रिणौ द्वावपि यथोक्तगुणसमवायिनौ---द्वावपि मंत्रयोग्यावित्यर्थः । अथ बहुसहाये राशि यद्भवति तदाहनीति०-९ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003150
Book TitleNiti Vakyamrutam Satikam
Original Sutra AuthorSomdevsuri
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari, Literature, Ethics, G000, & G999
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy