SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ १३० नीतिवाक्यामृते बहुसहाये राज्ञि प्रसीदन्ति सर्व एव मनोरथाः ॥ ८० ॥ टीका-यो बहुसहायो राजा भवति तस्य सर्वे मनोरथा हृदयस्थिता अभीष्टाः पदार्थाः प्रसीदन्ति सिद्धिं यान्ति । तथा च वर्ग:. मदहीनो यथा नागो दंष्ट्राहीनो यथोरगः। असहायस्तथा राजा तत्कार्या बहवश्च ते ॥१॥ यथैकस्य मंत्रिणो यद्भवति तदाहएको हि पुरुषो केषु नाम कार्येष्वत्मानं विभजते ॥ ८१ ॥ टीका--हि यस्मात्कारणादेको नामाहो केषु कार्येषु आत्मानं विभजते आत्मानं नियोजयति यतो भूपतीनां बहूनि कार्याणि भवन्ति तस्माद्राज्ञा बहवो मंत्रिणः कार्याः । तथा च जैमिनिः ऐवं यः कुरुते राजा मंत्रिणं मन्दबुद्धिमात् । तस्य भूरीणि कार्याणि सीदन्ति च तदाश्रयात् ॥ १॥ अथैकमंत्रिणो निषेधार्थ दृष्टान्तमाहकिमेकशाखस्य शाखिनो महती भवति च्छाया ॥८२॥ टीका-महावृक्षोऽपि यद्यकशाखो भवति तत् किं तस्य च्छाया महती भवति, अपि तु न भवतीत्यर्थः । एवं मंत्रिणाप्येकेन कार्य न सिद्धयतीत्यर्थः । तथा चात्रिः-- यथैकशाखवृक्षस्य नैव च्छाया प्रजायते। तथैकमंत्रिणा राज्ञः सिद्धिः कृत्येषु नो भवेत् ॥ १॥ अथ कार्ये समुत्पन्ने सहायसमुदायो यादग्भवति तदाहकार्यकाले दुर्लभः पुरुषसमुदायः ॥ ८३ ॥ टीका- कार्यकाले आपल्लक्षणे दुर्लभः पुरुषसमुदायस्तस्मात्पूर्वमेव सहायाः कर्तव्याः । उक्तं च १ एकमिति पाठेन भाव्यं । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003150
Book TitleNiti Vakyamrutam Satikam
Original Sutra AuthorSomdevsuri
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari, Literature, Ethics, G000, & G999
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy