SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ मंत्रिसमुद्देशः। १३१ अग्रे अग्रे प्रकर्तव्याः सहायाः सुविवेकिभिः । आपन्नाशाय ते यस्मादुर्लभा व्यसने स्थिते ॥१॥ अथानागतैर्न कृतैः सहायैर्यद्भवति तदाहदीप्ते गृहे कीदृशं कूपखननम् ।। ८४ ॥ टीका-यदा गृहं प्रदीप्तं भवति तदा तोयार्थ कूपखननं न युक्तं किं तत्काले कूपो भवति । एवं यः सहायान् पूर्व न करोति तस्यापकाले न भवन्ति तस्मात्सहायाः पूर्वमेव कार्याः । तथा च चाणिक्यः-- विपदानां प्रतीकारं पूर्वमेव प्रचिन्तयत् ।। न कूपखननं युक्तं प्रदीप्ते सहसा गृहे ॥१॥ अथ पुरुषधनाभ्यां विशेषमाहन धनं पुरुषसंग्रहाद्वहु मन्तव्यं ॥ ८५ ॥ टीका-~न बहु मन्तव्यं नोत्कृष्टं ज्ञेयं । किं तत् ? धनं । कस्मात् ? पुरुषसंग्रहसकाशात् । तस्माद्धनार्थिभिः पुरुषसंग्रहो भूपैः कार्यः । तथा च शुक्रः-- न बाह्य पुरुषेन्द्राणां धनं भूपस्य जायते । तस्माद्धनार्थिना कार्यः सर्वदा वीरसंग्रहः ॥१॥ अथ सत्पुरुषे दत्ते धने यद्भवति तदाहसत्क्षेत्रे वीजमिव पुरुषेषतं कार्य शतशः फलति ॥ ८६ ॥ टीका-अनेकधा फलं प्रयच्छति । किं तत् ? कार्य प्रयोजनं । किंविशिष्टं ? उप्तं क्षिप्तं । केषु ? सत्पुरुषेषु । किमिव ? बीजमिव । किंविशिष्टं ? उप्तं । क ? सत्क्षेत्रे उत्तमभूभागे यथा संख्यया हीनमन्नं भवति कार्य प्रयोजनं धनलक्षणं तथा फलति । तथा च जैमिनिः सन्नरे योजितं कार्य धनं च शतधा भवेत् । सुक्षेत्रे वापितं यद्वत्सस्यं तद्वदसंशयम् ॥ १॥ अथ कार्यपुरुषा यादृशा भवन्ति तानाह--- Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003150
Book TitleNiti Vakyamrutam Satikam
Original Sutra AuthorSomdevsuri
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari, Literature, Ethics, G000, & G999
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy