________________
१३२
नीतिवाक्यामृते
बुद्धावर्थे युद्धे च ये सहायास्ते कार्य पुरुषाः ॥ ८७ ॥ टीका-ये बुद्धौ बुद्धिं प्रयच्छन्ति, तथाऽर्थेऽर्थ कृत्ये जाते धनं प्रयच्छन्ति, तथा युद्धे शत्रुभिः संजाते सहायत्वं कुर्वन्ति ते कार्यपुरुषा उच्यन्ते । तथा च शौनकः--
मोहे यच्छन्ति ये बुद्धिमर्थे कृच्छं तथा धनं । वैरिसंघे सहायत्वं ते कार्यपुरुषा मताः॥१॥ अथ यस्मिन् काले यः सहायो भवति तदर्थमाह-- खादनवारायां को नाम न सहायः ॥ ८८ ॥ टीका-खादनवारायां भोजनसमये को नाम अहो न सहायः । यदा सम्पद्भवति तदा सर्वोऽपि जनः सहायः स्यात् । तथा च वर्गः
यदा स्यान्मंदिरे लक्ष्मीस्तदान्योऽपि सुहृद्भवेत् । वित्तक्षये तथा बन्धुस्तत्क्षणाद्दुर्जनायते ॥१॥ अथ यादृक् पुरुषस्य नाधिकारो भवति तमाहश्राद्ध इवाश्रोत्रियस्य न मंत्रे मूर्खस्याधिकारोऽस्ति ॥८९ ॥ टीका- ( मंत्रे मूर्खस्य मंत्रिणो नाधिकारोऽस्ति । किमिव ? ) श्राद्धे अश्रोत्रियस्येव । एतदुक्तं भवति, यथा ब्रह्मानुष्ठानवर्जितस्य ब्राह्मणस्य श्राद्धकर्मणि अनर्हत्वं तथा मंत्रे मूर्खा मंत्री महीभृतां ।
अथ मूर्खमंत्रिणो दोषमाहकिं नामान्धः पश्येत् ॥ ९॥ टीका-नामाहो जनः किमन्धश्चक्षुर्विकलः पश्येत् निरीक्ष्यते, अपि तु न किचित् । एतदुक्तं भवति, अन्धेन सदृशो मूर्यो भवति तद्यदि घटपटादीनन्धः पश्यति तन्मूखे मंत्री मंत्रं । तथा च शौनक..
१ इंदं सूत्रं पुस्तके ऽपूर्ण तत्तु मुद्रितपुस्तकात् पूर्णाकृत्य संयोजितं । २ कंसस्थः पाठः पुस्तके न विद्यते परं कल्पितोऽस्ति ।
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org