________________
मंत्रिसमुद्देशः ।
यद्यन्धो वीक्ष्यते किंचिद् घटं वा पटमेव च । तदा मूोपि यो मंत्री मंत्रं पश्येत्स भूभृताम् ॥ १॥ अथ मूर्खनृपतेर्मूर्खमंत्रिणो यद्भवति तदाहकिमन्धेनाकृष्यमाणोन्धः समं पन्थानं प्रतिपद्यते ॥ ९१ ॥
टीका-किं प्रतिपद्यते किं पश्यति । कं ? पन्थानं मार्ग । किंविशिष्टं ? समं गर्तपाषाणादिरहितं । कोसावन्धः । किंविशिष्टः ? आकृष्यमाणो नीयमानः । केन ? अन्धेन । यदि मूल् राजा मूर्खेण मंत्रिणा सह मंत्रं करोति तरिक मंत्रसाध्यानि प्रयोजनानि जानातीत्यर्थः । तथा च शुक्रः
अन्धेनाकृष्यमाणोऽत्र चेदन्धो मार्गवीक्षकः । भवेत्तन्मूर्खभूपोऽपि मंत्रं चेत्यज्ञमंत्रिणः ॥ १॥ अथ मूर्खमंत्रिणः सकाशात् कार्यसिद्धिर्यादृक् भवति तदाह
तदन्धवर्तकीयं काकतालीयं वा यन्मूर्खमंत्रात्कार्यसिद्धिः ॥ ९२॥
टीका-~-मूर्खमंत्राद्यदि तावत्कार्यसिद्धिर्भवति न यदि कथंचित्पुनर्भवति तदन्धवर्तकीयं, कोऽर्थः ? वर्तकाशब्देन चटिकाभिधीयते, सा अन्धस्य शिरसि चटति तां सोऽपि भुजाभ्यां गृह्णाति किमेतन्मम शिरसि पतितमिति मत्वा यथा तस्य तस्या ग्रहणमन्धस्यापि तथाचक्षुष्मतः, तथा मूर्खमंत्रस्यापि दैवयोगात्कार्यसिद्धिः । अथवा काकतालीयं यन्मूर्खमंत्रात्कार्यसिद्धिः । कोऽर्थः ? तालवृक्षस्य तावद्वर्षशतेन फलं भवति काकश्च सर्वेषां पक्षिणां सकाशादतीवाविश्वासी भवति स तस्याधो गच्छन् तत्फलेन पतता यदि हन्यते तन्मूर्खमंत्रासिद्धिरिति । तथा च गुरुः
अन्धवर्तयमेवैतत् काकतालीयमेव च । यन्मूर्खमंत्रतः सिद्धिः कथंचिदपि जायते ॥१॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org