SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ १३४ नीतिवाक्यामृत अथ मूर्खमंत्रिणोऽपि यन्मंत्रपरिज्ञानं तत्स्वरूपमाह - स घुणाक्षरन्यायो यन्मूर्खेषु मंत्रपरिज्ञानम् ॥ ९३ ॥ टीका - घुणः कृमिविशेषः स शनैः काष्ठं भक्षयति तेन तस्य भक्ष्यमाणस्य विचित्रा रेखा भवन्ति तासां मध्यात्काचिद्रेखाऽक्षराकारा भवति । एवं मूर्खेषु मंत्रपरिज्ञानं घुणाक्षरन्यायवत् कदाचित्सिद्धिं याति । तथा च गुरुः ―― यन्मूर्खेषु परिज्ञानं जायते मंत्रसम्भवम् । स हि घुणाक्षर न्यायो न तज्ज्ञानं प्रकीर्तितं ॥ १ ॥ अथ शास्त्ररहितस्य मनसो यद्भवति तदाहअनालोकं लोचनमिवाशास्त्रं मनः कियत्पश्येत् ॥ ९४ ॥ टीका- - अशास्त्रं यन्मनो भवति जडात्मकं तन्मनः कियत्पश्यति न किंचिदपि मंत्रविषये । किमिव ? लोचनमिव नेत्रमिव । किंविशिष्टं ? आलोकरहितं ज्योतीरहितं घटपटाद्यं यथा न पश्यति तस्माच्छास्त्रमंत्रिणः कार्याः । तथा च गर्ग: आलोकरहितं नेत्रं यथा किंचिन्न पश्यति । d. तथा शास्त्रविहीनं यन्मनो मंत्रं न पश्यति ॥ १ ॥ अथ मंत्रिणामन्येषां वा यः सम्पदं जनयति तथाहस्वामिप्रसादः सम्पदं जनयति न पुनरभिजात्यं पांडित्यं वा ।। ९५ ।। टीका - मंत्रिणामन्येषां स्वामिप्रसादः सम्पदं जनयति नाभिजात्यं कुलीनतां न पांडित्यं बहुश्रुतत्वं । एतदुक्तं भवति यस्य राजप्रसादः तस्य सर्वोऽपि जनः पूजां करोति येनेषे ? राज्ञे विज्ञप्तिकाविषयं साहाय्यं करोति । न कुलीनस्य पांडित्यस्य वा कश्चित्पूजां करोति । तथा च शुक्रः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003150
Book TitleNiti Vakyamrutam Satikam
Original Sutra AuthorSomdevsuri
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari, Literature, Ethics, G000, & G999
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy