________________
मंत्रिसमुद्देशः।
कुलीना पण्डिता दुःस्था दृश्यन्ते बहवो जनाः । मूर्खाः कुलविहीनाश्च धनाढया राजवल्लभाः॥१॥ अथ मूर्खमंत्रिणः स्वरूपमाह-- हरकण्ठलग्नोऽपि कालकूटः काल एव ॥ ९६ ॥
टीका-यद्यपि महेश्वरस्य कण्ठे श्वेततरे लग्नस्तथापि कालकूटः विषसंज्ञः काल एव कृत(ष्ण)त्वात् पुनः शुक्लत्वं न जनयति । एवं यद्यपि मूल् मंत्री भूपेन गुरुस्थानं निरूपितस्तथापि मूर्ख एव विद्वान्न भवति तस्मान्मूखे मंत्री न कार्यः । तथा च सुन्दरसेनः
स्वभावेनोपदेशेन शक्यते कर्तुमन्यथा । सुतप्तान्यपि तोयानि पुनर्गच्छन्ति शीततां ॥१॥ अथ मुर्खमंत्रिषु राज्यभारेणार्पितेन यद्भवति तदाहस्ववधाय कृत्योत्थापनमिव मूर्खेषु राज्यभारारोपणम्॥९७॥
टीका-यद्भूपेन मूर्खमंत्रिषु राज्यकारभारः समर्प्यते तत्कृत्योत्थापनं कृत्याशब्देनाथर्वणमंत्रैः पावके होमविधानेन कृतेन पुरुषो यो निष्कामति स कर्तुः शत्रु व्यापादयति यदि वा शत्रुर्बलवान् भवति जपहोमदानस्तदा सा येनोत्थापिता तमेव विनाशयति तद्यथा तस्याः कृत्यायाः स्ववधायात्मवधायोत्थापनं क्रियते तथा मूर्खमंत्रिषु राज्यभारावरोपणं । तथा च शुक्रः
मूर्खमंत्रिषु यो भारं राज्ञोत्थं संप्रयच्छति ।? आत्मनाशाय कृत्यां स उत्थापयति भूमिपः ॥ १॥ अथाकार्यवेदिनो भूपस्य यद्योग्यं तदाह--- अकार्यवेदिनः किंबहुना शास्त्रेण ॥ ९८॥ टीका-~~-यो राजाकार्यवेदी स्यात् न कार्य वेत्ति तस्य किं प्रभूतेनापि शास्त्रेण व्यर्थं तत् भस्मनि हुतमिव । तथा च रैभ्यः--
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org