SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ १३६ नीतिवाक्यामृते न कार्य यो निजं वेत्ति शास्त्राभ्यासेन तस्य किं । बहुनापि वृद्धात्थेण ? यथा भस्महुतेन च ॥ १ ॥ अथ गुणहीनस्य राज्ञो यद्भवति तदाह www.dw.com गुणहीनं धनुः पिंजनादपि कष्टम् ।। ९९ ।। टीका - - गुणशब्देन ज्याभिधीयते । यस्मिन् धनुषि ज्या न भवति तत्पिजनादपि व्यर्थे कष्टमिति एवं राजापि यः शारीरिकगुणैर्युक्तो न भवति स कापुरुषवत् कष्टो व्यर्थमित्यर्थः । तथा च जैमिनि:गुणहीनश्च यो राजा स व्यर्थश्चापयष्टिवत् । राभूमेः परं पदे ॥ १ ॥ यथा कापुरुष.. अथ मंत्रिणः स्वरूपमाहचक्षुष इव मंत्रिणोऽपि यथार्थदर्शन सेवात्मगौरव हेतुः ॥ १०० ॥ टीका - मंत्रिणोऽमात्यस्य किं आत्मनो गुरुत्वे हेतुः कारणं यथार्थदर्शनं प्रयोजनविषये यथार्थदर्शनं कार्यसाधिका मंत्रिदृष्टिः तदा नृपपूज्यो भवति । कस्येव गौरव हेतुर्भवति : लोचनस्येव यथा पुरुषो यथार्थदर्शनं पदार्थस्य । तथा च गुरुः सूक्ष्मालोकस्य नेत्रस्य यथा शंसा प्रजायते । मंत्रिणोऽपि सुमंत्रस्य तथा सा नृपसंभवा ॥ १ ॥ अथ यादृशो मंत्रिणः कार्यस्तानाह शस्त्राधिकारिणो न मंत्राधिकारिणः स्युः ॥ १०१ ॥ टीका- न स्युर्न भवेयुः के ? एते शस्त्राधिकारिणः क्षत्रियाः । किं विशिष्टा न स्युः ? मंत्राधिकारिणो मंत्रस्थानिनो । तथा च जैमिनि:-- मंत्रस्थाने न कर्तव्याः क्षत्रियाः पृथिवभुिजा । यतस्ते केवलं मंत्रं प्रपश्यन्ति रणोद्भवम् ॥ १ ॥ अथ क्षत्रियो येन कारणेन मंत्री न क्रियते तदाहक्षत्रियस्य परिहरतोऽप्यायात्युपरि भंडनं ।। १०२ ॥ For Private & Personal Use Only Jain Education International ____ www.jainelibrary.org
SR No.003150
Book TitleNiti Vakyamrutam Satikam
Original Sutra AuthorSomdevsuri
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari, Literature, Ethics, G000, & G999
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy