SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ मंत्रिसमुद्देशः । १३७ टीका-यः क्षत्रियो भवति तस्य परिहरतोऽपि त्यजतोऽपि अवश्यं निश्चितं आयात्यागच्छति, किं तत् भंडनं कलहमिति । एतेन कारणेन क्षत्रिया मंत्रिणो न कार्याः । तथा च वर्गः-- घ्रियमाणमपि प्रायः क्षात्रं तेजो विवर्धते । युद्धार्थ तेन संत्याज्यः क्षत्रियो मंत्रकर्मणि ॥१॥ अथ शस्त्रोपजीविनां स्वरूपमाह शस्त्रोपजीविनां कलहमन्तरेण भक्तमपि भुक्तं न जीर्यति ॥ १०३ ॥ टीका- तस्मात्ते मंत्रिणो न कार्या एतत्तात्पर्यमिति । तथा च भागुरिः-. शस्त्रोपजीविनामन्नमुदरस्थं न जीर्यति । यावत्केनापि नो युद्ध साधुनापि समं भवेत् ॥१॥ अथ पुरुषस्य ये पदार्था गर्व जनयन्ति तानाहमंत्राधिकारः स्वामिप्रसादः शस्त्रोपजीवनं चेत्येकैकमपि पुरुषमुत्सेकयति किं पुनने समुदायः ॥ १०४ ॥ __टीका-मंत्राधिकारः स्वामिप्रसादः शस्त्रजीवनं एतेषां त्रयाणां एकोऽपि पदार्थः संजातः पुरुषं उत्सकयति सगर्व करोति किं पुनः सर्वेषां समवायो मेलापको नोत्सेकयति । तथा च शुक्रः नृपप्रसादो मंत्रित्वं शस्त्रजीव्यं स्मयं क्रियात् । एकैकोऽपि नरस्यात्र किं पुनर्यत्र ते त्रयः ॥१॥ अथाधिकारिणः स्वरूपमाहनालम्पटोधिकारी ॥१०५ ॥ टीका- योऽलम्पटो भवति निःस्पृहः स्यात् सोऽधिकारं न करोति । तथा च वल्लभदेवः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003150
Book TitleNiti Vakyamrutam Satikam
Original Sutra AuthorSomdevsuri
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari, Literature, Ethics, G000, & G999
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy