SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ १३८ नीतिवाक्यामृते निःस्पृहो नाधिकारी स्यान्नाकामी मण्डनप्रियः। नाविदग्धः प्रियं ब्रूयात्स्फुटवक्ता न वंचकः॥१॥ अथ मंत्रिणि अर्थलुब्धे यद्राज्ञो भवति तदाहमंत्रिणोऽर्थग्रहणलालसायां मतौ न राज्ञः कार्यमों वा ॥ १०६ ॥ टीका-मंत्रिणः सचिवस्य यस्यार्थग्रहणलालसा लम्पटा मतिर्भवति तदा तस्य यो राजा तस्य कार्यसिद्धिर्न भवति अर्थो न भवति । तथा च गुरु: यस्य संजायते मंत्री वित्तग्रहणलालसः। तस्य कार्य न सिध्येत भूमिपस्य कुतो धनं ॥१॥ अथ भूयोऽपि वित्तग्रहणलालसस्य मंत्रिणः स्वरूपं निरूपयन्नाह दृष्टान्तद्वारेण वरणार्थ प्रेषित इव यदि कन्यां परिणयति तदा वरयितुस्तप एव शरणम् ॥ १०७॥ ___टीका-यदि कन्यावरणार्थ प्रेषितो दूतः स्वयमेव कन्यां परिणयति तदा परिणयितुर्येन प्रेषितस्तस्य तपश्चरणं शरणं स्थानं यतः कलत्रं विना तपः कार्य । एवं यदि मंत्री ग्रहणलम्पटो भवति...तत्पार्थिवस्यापि तपश्चरणं शरणं यतो वित्तबाह्यं राज्यं न भवति वित्तं पुनमंत्रीद्वारेण स्यात् । तथा च शुक्रः निरुणद्धि सतां मार्ग स्वयमाश्रित्य शंकितः । श्वाकारः सचिवो यस्य तस्य राज्यस्थितिः कुतः॥१॥ पुनरपि मंत्रस्वरूपमन्यदृष्टान्तनाहस्थाल्येव भक्तं चेत्स्वयमश्नाति कुतो भोर्तुभुक्तिः ॥१०८॥ टीका--स्थालीशब्देन उषा ? उच्यते सापि भक्तमन्नं स्वयं अश्नाति भक्षयति तद्भोक्तुर्भोजनार्थिनः कुतो भुक्तिः भोजनं भवतीत्यर्थः । एवं यो Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003150
Book TitleNiti Vakyamrutam Satikam
Original Sutra AuthorSomdevsuri
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari, Literature, Ethics, G000, & G999
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy