SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ मंत्रिसमुद्देशः । १३९ मंत्री राजद्रव्यलम्पटो भवति तस्य स्वामिनः कुतो राज्यकृत्यानि स्युः । तथा च विदुर: दुग्धमाक्रम्य चान्येन पीतं वत्सेन गां यदा । तदा तक्रं कुतस्तस्याः स्वामिनस्तृप्तये भवेत् ॥ १ ॥ अथ पुरुषाणां स्वरूपमाह तावत्सर्वोऽपि शुचिर्निःस्पृहो यावन्न परवरस्त्रीदर्शनमर्थागमो वा ।। १०९ ।। टीका - सर्वोऽपि जन: तावच्छुचिर्निर्मल निस्पृहो यावत्परवरनारी नावलोकयति, तावच्च निस्पृहो यावत्परवित्तं न पश्यति । तथा च वर्ग:तावच्छुचिरलोभः स्यात् यावन्नेक्षेत्परस्त्रियं । वित्तं च दर्शनात्ताभ्या द्वितीयं तत्प्रणश्यति ॥ १ ॥ अधादुष्टस्य दूषणेन कृतेन यद्भवति तदाह-अदुष्टस्य दूषणं सुप्तव्यालप्रबोधनमिव ॥ ११० ॥ टीका — दोषरहितस्य पुरुषस्य यन्मूर्खेण दूषणं दीयते । तत्किमिव ? सुप्तव्यालप्रबोधनमिव सुप्तस्य सर्पस्य व्याघ्रस्य वा बोधनं बोधयितुः मरणाय भवति । तथा च गुरुः सुखसुप्तमहिं मूर्खो व्याघ्रं वा यः प्रबोधयेत् । स साधोद्वेषणं दद्यान्निर्दोषस्यात्ममृत्यवे ॥ १ ॥ अथ वैरं कृत्वा वैरिणा सह सन्धानं करोति तस्य यद्भवति तदाहसकृद्विघटितं चेतः स्फटिकवलयमिव कः सन्धातुमीश्वरः ।। १११ ॥ १ अस्मादग्रे " येन सह चित्तविनाशोऽभूत् स सन्निहितो न कर्तव्यः सूत्रमुपलभतेऽन्यत्र । Jain Education International For Private & Personal Use Only " इति www.jainelibrary.org
SR No.003150
Book TitleNiti Vakyamrutam Satikam
Original Sutra AuthorSomdevsuri
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari, Literature, Ethics, G000, & G999
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy