________________
१४०
नीतिवाक्यामृते
टीका - क ईश्वरः कः समर्थो भवति । किं कर्तुं ? सन्धातुं । किं तत् ? चेतः मनः सकृद्विघटितं । किमिव ? स्फटिकवलयमिव पाषाणकंकमिव यथा पाषाणवलयस्य भग्नस्य सन्धिर्न भवति । तथा च जैमिनि:पाषाणघटितस्यात्र संधिर्भग्नस्य नो यथा । कंकणस्येव चित्तस्य तथा वै दूषितस्य च ॥ १॥ अथ चित्तविरागो महान् यथा भवति तदाहन महताप्युपकारेण चित्तस्य तथानुरागो यथा विरागो भवत्यल्पेनाप्यपकारेण ॥। ११२ ।।
टीका - चित्तस्य मनसस्तथा महताप्युपकारेण दानादिनानुरागः स्नेहो न भवति यथा स्वल्पेनाप्यपकारेण विरुद्धेन कृतेन विरागः स्नेहनाशो भवति । विरुद्धं स्वल्पमपि कस्यापि ( न ) चा (च) रणीयं । तथा च वादरायणः
न तथा जायते स्नेहः प्रभूतैः सुकृतैर्बहुः । स्वल्पेनाप्यपकारेण यथा वैरं प्रजायते ॥ १ ॥
सूचीमुखसर्प इव नापकृत्य विरमन्त्यपराधाः ॥ ११३॥ टीका---न विरमन्ति न तिष्ठन्ति । के ? अपराधाः किं कृत्वापकृत्य यावन्न वैरनिर्गमः कृतः । क इव ? सूचीमुखसर्प इव । सूचीमुखा दृष्टिविषाः । तथा च भृगुः
यो दृष्टिविषः सर्पो दृष्टस्तु विकृतिं भजेत् । तथापराधिनः सर्वे न स्युर्विकृतिवर्जिताः ॥ १ ॥
अधातिवृद्धस्य कामस्य स्वरूपमाह
अतिवृद्धः कामस्तन्नास्ति यन्न करोति ॥ ११४ ॥
टीका कामः कामदेवः शरीरऽतिवृद्धिं गतः सन् तन्नास्त्यकृत्यं य करोति - अपि तु सर्व करोतीत्यर्थः ।
Jain Education International
----
-
For Private & Personal Use Only
www.jainelibrary.org