SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ मंत्रिसमुद्देशः । १४१ श्रूयते हि किल कामपरवशः प्रजापतिरात्मदुहितरि, हरिर्गोपवधूषु, हरः शोन्तनुकलत्रेषु, सुरपतिर्गौतमभार्यायां चन्द्रश्व बृहस्पतिपत्न्यां मनश्चकारेति ।। ११५ ।। टीका - एतत्कामचेष्टितं देवानां पुराणेषु श्रोतव्यमिति । अथ पुरुषाः साभिलाषा यथा भवन्ति तथाहअर्थेषूपभोगरहितास्तरवोऽपि साभिलाषाः किं पुनर्मनुष्याः || टीका - अर्थेषु धनेषु साभिलाषाः सानन्दास्तरवोऽपि वृक्षा अपि भवन्ति येषामुपभोगो बिलासो न भवति किं पुनर्मनुष्या ये विलासज्ञाः । कथं तरवोऽर्थेषु साभिलाषा भवन्ति, उक्तं च यतो वातशास्त्रे विश्वकर्मणा- विल्वादर्थपलासाद्वा निधानं चेदधो भवेत् । अधोमुखाः प्ररोहाः स्युर्नाभ्यां गच्छन्ति तत्र यत् ॥ १ ॥ तथा च जैमिनि: +----- अर्थ तेऽपि च वाञ्छन्ति ये वृक्षा आत्मचेतसा । उपभोगैः परित्यक्ताः किं पुनर्मनुष्याश्च ये ॥ १॥ तथा लोभस्वरूपमाह - कस्य न धनलाभाल्लोभः प्रवर्तते ।। ११७ ॥ टीका — कस्य न धनलाभसकाशाल्लोभो भवति, अपि तु सर्वस्यापि जनस्य भवतीत्यर्थः । तथा च वर्ग: तावन्न जायते लोभो यावल्लाभो न विद्यते । मुनिर्यदि वनस्थोऽपि दानं गृह्णाति नान्यथा ॥ १ ॥ 1 Jain Education International अथ जितेन्द्रियो यादृग्भवति तदाह स खलु प्रत्यक्षं दैवं यस्य परस्वेष्विव परस्त्रीषु निःस्पृहं चेतः ॥ ११८ ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.003150
Book TitleNiti Vakyamrutam Satikam
Original Sutra AuthorSomdevsuri
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari, Literature, Ethics, G000, & G999
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy