SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ १४२ नीतिवाक्यामृते टीका-यस्य पुरुषस्य परवित्ते दृष्टे परस्त्रीषु दृष्टासु निःस्पृहं चेतो भवति स मानवो न भवति प्रत्यक्षं दैवं देवतास्वरूपं । तथा च वर्ग: परद्रव्ये कलत्रे च यस्य दृष्टे महात्मनः । न मनो विकृतिं याति स देवो न च मानवः॥१॥ अथ रामसिकानां कार्यारम्भो यादृग्भवति तथाहसमायव्ययः कार्यारंभो रामसिकानाम् ॥ ११९ ॥ टीका-ये राभसिकाः पुरुषा भवन्ति आनन्देन कार्य कुर्वन्ति । यदि कार्ये कृते आयव्ययौ समौ भवतः सोप्यानन्दस्तेषां । तथा च हारीत: आयव्ययौ समौ स्यातां यदि कार्यों विनश्यति । ततस्तोषेण कुर्वन्ति भूयोऽपि न त्यजन्ति तम् ॥१॥ अथ महामूर्खाणां यथा कार्यारम्भो भवति तमाहबहुक्लेशेनाल्पफलः कार्यारम्भो महामूर्खाणाम् ॥ १२० ॥ टीका-ये महामूर्खा भवन्ति ते बहुक्लेशेनाल्पफलमपि कार्यारम्भं कुर्वन्ति न निर्वेदं यान्ति । तथा च वर्ग: बहुक्लेशानि कृत्यानि स्वल्पभावानि च क्रतुः ? । महामूर्खतमा येऽत्र न निर्वेदं ब्रजन्ति च ॥१॥ अथ कापुरुषाणां कार्यारम्भः प्रोच्यतेदोषभयान कार्यारम्भः कापुरुषाणां ॥ १२१ ॥ टीका-ये कापुरुषा भवन्ति ते दोषभयात्कार्यारम्भं न कुर्वन्ति । एतेन कृतेन एष दोषो भविष्यति । अनेन कृतेन पुनरन्यतमो दोषो भविष्यति । एवं चिन्तयमानाः कापुरुषा निरुद्यमा भवन्ति सदा कापुरुषाः । तथा च वर्ग: १ संतानुं पु.। २ कार्यों इति टीकापुस्तके नपुंसकलिंगोऽपि कार्यशब्दः पुल्लिंगत्वेनोक्तः । तथा हारीतवचनमपि एताहगेव । Jain Education International For Private & Personal Use Only ___www.jainelibrary.org
SR No.003150
Book TitleNiti Vakyamrutam Satikam
Original Sutra AuthorSomdevsuri
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari, Literature, Ethics, G000, & G999
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy