________________
मंत्रिसमुद्देशः ।
?
कार्यदोषान् विचिन्वन्तो नराः कापुरुषाः स्वयं । शुभं भाव्यान्यपि त्रस्ता न कृत्यानि प्रचक्रतुः १ ॥ १ ॥ अथ भूयोऽपि कापुरुषानुद्दिश्यान्योपदेशेन सूत्रद्वयमाहमृगाः सन्तीति किं कृषिर्न क्रियते ।। १२२ ॥ अजीर्णभयात् किं भोजनं परित्यज्यते ॥ १२३ ॥ टीका — गतार्थमेतत् ।
अथ कार्यारम्भमुद्दिश्य प्रोच्यते
स खलु को पीहा भूदस्ति भविष्यति वा यस्य कार्यारम्भेषु प्रत्यवाया न भवन्ति ॥ १२४ ॥
१४३
टीका --- अपि भवन्तीति नियः । तथा च भागुरि:
यस्योद्यमो भवति तं समुपैति लक्ष्मीदैवेन देयमिति कापुरुषा वदन्ति । दैवं निहत्य कुरु पौरषमात्मशक्त्या
यत्ने कृते यदि न सिद्ध्यति कोऽत्र दोषः ॥ १ ॥ अथ दुष्टाशयानां कार्यारम्भो यादृकू भवति तमाहआत्मसंशयेन कार्यारम्भो व्याहृदयानाम् ।। १२५ ॥ टीका — ये व्यालहृदया भवन्ति व्यालौ श्वापदभुजंगौ । तौ स्वभावेन दुष्टौ भवतस्ताभ्यां सदृशं हृदयं यस्य सः । आत्मसन्देहेन कार्यारम्भो भवति । एवमुक्तं, सर्वे श्वापदा क्षुधार्ता भयं त्यक्त्वा सुरक्षितमपि पदार्थ भक्षयन्ति ततः कदाचिद्वधामाप्नुयुः । एवमन्येऽपि ये दुष्टहृदया भवन्ति तानि कानिचिद्दुष्टकर्माणि भवन्ति ये ( षां ) व्यालानामिवात्मसन्देहो भवति । तथा च शुक्रः
—
--
१ बालहृदयानामिति मुद्रितपुस्तके पाठान्तरम् । व्यालानामिति टीकापुस्तके मूलपाठः टीकानुसारेण परिवर्तितः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org