SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ १४४ नीतिवाक्यामृते ये व्यालहृदया भूपास्तेषां कर्माणि यानि च । आत्मसन्देहकारीणि तानि स्युनिखिलानि च ॥१॥ अथ महापुरुषाणां यो गुणस्तमाहदुर्भारुत्वमासनशूरत्वं रिपौ प्रति महापुरुषाणां ॥१२६ ॥ टीका-ये महापुरुषा भवन्ति तेषां दूरस्थे रिपो न या म्रयाद् ? भीरुत्वं भवति । उक्तं च यतो नीतौ-- युद्धं परित्यजेद्धीमानुपायैः सामपूर्वकैः। कदाचिजायते दैवाद्धीनेनापि बलाधिकः ॥१॥ टीका-तथासन्नशूरत्वं आसन्ने तु पुनः बलं शूरत्वं भवति महापुरुषाणां । उक्तं च यंतो नीतौ तावत्परस्य भेत्तव्यं यावन्नो दर्शनं भवेत् । दर्शने तु पुनर्जाते प्रहर्तव्यमशंकितैः ॥१॥ अथ मार्दवयुक्तानां यद्भवति तदाहजलवन्मार्दवोपेतः पृथूनपि भूभृतो भिनत्ति ॥ १२७ ॥ टीका-भिनत्ति विदारयति । कान् ? भूभृतो राज्ञः । किंविशिष्टान् ? पृथूनपि महतोऽपि । कथं ? जलवत् । यथा जलं कोमलमपि भूभतः पर्वतानपि भिनत्ति । एवं राजापि । तथा च गुरु: मार्दवेनापि सिद्धयन्ति कार्याणि सुगुरूण्यपि । यतो जलेन भिद्यन्ते पर्वता अपि निष्ठुराः ॥१॥ अथ मधुरवादिनो नृपस्य यद्भवति तदाहप्रियंवदः शिखीव द्विषत्सनुच्छादयति ।। १२८ ॥ टीका-यो राजा प्रियंवदो भवति । स किं करोति ? स द्विषन्तं उच्छादयति नाशं नयति । क इव ? शिखीव सर्पान् । यथा शिखी १ ' रुपनहु' पुस्तके पाठः । २ रुपुनर्जाने पुस्तके पाठः। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003150
Book TitleNiti Vakyamrutam Satikam
Original Sutra AuthorSomdevsuri
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari, Literature, Ethics, G000, & G999
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy