SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ मंत्रिसमुदेशः । १४५ wwwwwwwwwwwwwwww मयूरः सर्पान् सदीनपि, मधुरस्वरान्नाशयति तथा राजापि मधुरः सदर्पानपि शन्नाशयति । तथा च शुक्रः-- यो राजा मृदुवाक्यः स्यात्सदानपि विद्विषः । स निहति न सन्देहो मयूरो भुजगानिव ॥१॥ अथ महानुभावा यथा स्वहृदयं न प्रकटयन्ति तथाह नाविज्ञाय परेषामर्थमनर्थ वा स्वहृदयं प्रकाशयन्ति महानुभावाः ॥ १२९ ॥ टीका--ये महानुभावा उत्तम पुरुषाभवन्ति ते न प्रकाशयन्ति । किं तत् ? आत्मीयहृदयं । किं कृत्वा ? अविज्ञाय अज्ञात्वा । कं ? अर्थ प्रयोजनं अनर्थ वा । केषां ? परेषामन्यलोकानां । तथा च भृगुः अज्ञात्वा परकार्य च.शुभं वा यदि वाशुभं । अन्येषां न प्रकाशेयुः:सन्तो नैव निजाशयं ॥१॥ अथ महा पुरुषाणामालापो यादृरभवति ताहगाह--- क्षीरवृक्षवत् फलसम्पादनमेव महतामालापः ॥ १३० ॥ टीका--महतां महापुरुषाणां योऽसो आलापः स फलसम्पादनं करोति । क इव ? क्षीरवृक्ष इव । यथा क्षीरवृक्षः फलसम्पादनं करोति तथा महापुरुषाणामालापा एव । तथा च वर्ग: आलापः साधुलोकानां फलदः स्यादसंशयम्। . अचिरेणैव कालेन क्षीरवृक्षो यथा तथा ॥१॥ अथ नीचप्रकृतेः स्वरूपमाह - दुरारोहपादप इव दण्डाभियोगेन फलप्रदो भवति नीचप्रकृतिः ।। १३१॥ टीका--नीचा निकृष्टा प्रकृतिः स्वभावो यस्यासौ नीचप्रकृतिः स फलप्रदो भवति दण्डाभियोगेन लगुडप्रहारेण । क इव ? दुरारोह १ चव इ.त सुभाति एकनकारस्यानर्थक्यात् अन्यथा अर्थविरोधः स्यात् । नीति०-१० Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003150
Book TitleNiti Vakyamrutam Satikam
Original Sutra AuthorSomdevsuri
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari, Literature, Ethics, G000, & G999
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy