________________
नीतिवाक्यामृते
-
~-
-
पादप इव दुःखारोहवृक्ष इव कण्टकाकीर्ण इवति यावत् । स यथा लगुडाहतः फलानि प्रयच्छति तथा नीचप्रकृतिरपि। तथा च भागुरि:----
दण्डाहतो यथारातिर्दुरारोहो महीरुहः। तथा फलप्रदो नूनं नीचप्रकृतिरत्र यः ॥ १॥ अथ महान् पुरुषो यादृशो भवति तदाहस महान् यो विपत्सु धैर्यमवलम्बते ॥ १३२ ॥
टीका-स पुरुषो महत्वमाप्नोति । यः किं ? य आलम्बते आश्रयति । किं तत् ? धैर्य पौरुषं । कासु ? आपत्सु व्यसनात्मिकासु। तथा च गुरु:
आपत्कालेऽत्र संप्राप्तौ धैर्यमालम्बते हि यः।
स महत्वमवाप्नोति पार्थिवः पृथिवीतले ॥१॥ अथ सर्वकृत्येषु पार्थिवस्य यथान्तरायत्वं तदाहउत्तापकत्वं हि सर्वकार्येषु सिद्धीनां प्रथमोन्तरायः ॥१३३॥
टीका--यदुत्तापकत्वं व्याकुलत्वं पुरुषस्य । तत्कि विशिष्टं ? अन्तरायो विघ्नं । केषु ? सर्वकार्येषु निखिलप्रयोजनेषु । कासां ? सिद्धीनां । हि स्फुटं । तथा च गुरु:---
व्याकुलत्वं हि लोकानां सर्वकृत्यषु विघ्नत् ।
पार्थिवानां विशेषेण येषां कार्याऽपि ? भूरिशः ॥१॥ अथ कुलीनानां स्वरूपमाह--
शरद्धना इव न खलु वृथालापा गलगर्जितं कुर्वन्ति सत्कुलजाताः॥१३४॥
टीका-कुलीना ये अवन्ति ते वृथालापा अयुक्तालापा न हि भवन्ति । क इव ? शरदना इव शरत्काले मेघा इव । यथा ते वृथा गजितं प्रचुरं कुर्वन्ति न वृष्टिं तथा कुलीना वृथा गलगर्जितं न कुर्वन्ति । तथा च गौतमः
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org