SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ मंत्रिसमुद्देशः। १४७ वृथालापैर्न भाव्यं न (च) भूमिपालैः कदाचन । यथा शरद्धना कुद्दुस्तोयवृष्टिविवर्जिताः ॥१॥ अथ सुन्दरासुन्दरं यद्वस्तु भवति तदाह न स्वभावेन किमपि वस्तु सुन्दरमसुन्दरं वा यस्य यदेव प्रतिभाति तस्य तदेव सुन्दरम् ॥ १३५ ॥ ____टीका--अस्मिन् किमपि वस्तु स्वभावेन मुन्दरमुत्तमं नास्ति असुन्दरं निकृष्टं वा नास्ति किन्तु यदेव प्रतिभाति तदेव तस्य सुन्दरं तन्निकृष्टमपि, यन्न मनसः प्रतिभाति तत्सुन्दरमपि निकृष्टं । तथा च जैमिनि: सुन्दरासुदरं लोके न किंचिदपि विद्यते । निकृष्टमपि तच्छ्रेष्ठं मनसः प्रतिभाति यत् ॥१॥ अथोक्तसूत्रापेक्षया दृष्टान्तमाह--- न तथा कर्पूरेण प्रीतिः केतकीनां यथामध्येन ॥ १३६ ॥ टीका-केतकीनां पुष्पजातिविशेषाणां तथा प्रीतिदिन भवति यथा अमेध्येन दोहदेन दत्तेन । गतार्थमेतत् । अथातिक्रोधनस्य यद्भवति तदाह अतिक्रोधनस्य प्रभुत्त्वमग्नौ पतितं लवणमिव शतधा विशीयते । १३७॥ ___टीका-अतिक्रोधनस्य पुरुषस्य प्रभुत्वं ऐश्वर्य, किंविशिष्टं भवति ? शीर्यते विनाशं याति । कथं ? शतवा अनेकधा। किमिव ? लवणमिव । किंविशिष्टं ? पतितं अग्नौ वैश्वानरे । यथा वैश्वानरे पतितं लवणं शतधा विनाशमुपयाति । तथा चर्षिपुत्रकः अतिक्रोधो महीपालः प्रभुत्वस्य विनाशकः । लवणस्य यथा वन्हिर्मध्ये निपतितस्य च ॥१॥ तस्मादीश्वरेणातिकोपो न कार्यः । अथ सर्वान् गुणान् यथा पुरुषो निहंति तदाह Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003150
Book TitleNiti Vakyamrutam Satikam
Original Sutra AuthorSomdevsuri
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari, Literature, Ethics, G000, & G999
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy