________________
१४८
नीतिवाक्यामृते
सर्वान् गुणान् निहन्त्यनुचितज्ञः ॥ १३८ ॥
टीका-न उचितं योग्यं जानाति अनुचितज्ञः । स किं करोति ? निहन्ति । कान् ? गुणान् । किंविशिष्टान् ? सर्वान् समस्तान् । यः पुरुषो यत् यस्मिन् काले उचितं योग्यं कृत्यं न जानाति स सर्वान् गुणान् आत्मीयान् हन्ति । तथा च नारद:
गुणैः सर्वैः समेतोऽपि वेत्ति कालोचितं न च । वृथा तस्य गुणाः सर्दै यथा षण्ढस्य योषितः ॥ १ ॥ अथ परस्परं मर्मकथनेन यद्भवति तदाहपरस्परं मर्मकथनयात्मविक्रम एव ॥ १३९ ॥
टीका-परस्परं कलहायमानैर्यन्मर्मकथनं क्रियते जनैः । तत्किमित्याह-~तदात्मविक्रम एव क्रियते । एतदुक्तं भवति, यथा कलहायमानः कश्चित्परस्य मर्माणि कथयति । तथा च जैमिनिः--
परस्य धर्मभेदं च कुरुते कलहाश्रयः। तस्य सोऽपि करोत्यव तस्मान्मत्रं न भेदयत् ॥१॥ अथ परस्य विश्वस्तानां यद्भवति तदाहतदजाकृपाणीयं यः परेषु विश्वासः ॥ १४॥ टीका-परेषु शत्रुषु विश्वासः क्रियते । स किंविशिष्टः स्यात् ? अजाकृपाणीयं स्ववधाय भवतीत्यर्थः । यथाजाकृपाणीयं कथ्यते-केनापि पान्थेन मार्गावस्थितेन क्षुधातैनाटव्यां छागयूथं रक्षिपालसहितं भ्रमदालोकितं ततः स मृदुपलवान् प्रचुरतरान् गृहीत्वा स्तोकान् स्तोकान् छागस्यैकस्य मुखे योजितवान् , छागोऽपि तल्लोल्यात् तस्य पृष्ठलग्नः, अन्यानपि भक्षयन्(?) तस्याने परिक्षिप्य तद्वधार्थ किंचित्काष्ठं पाषाणं वा अन्वेष्टुमारब्धः सोऽपि विशस्त्रः तथा छागस्य (?) मृदुपलवान् भक्षयन् १ तस्य ममाणि परोऽपि कथयतात्यर्थः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org