SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ मंत्रिसमुद्देशः । १४९ सानन्दः पादाग्रेण भूमिमखनत् । अथ तस्य खनतः केनापि प्राकू तत्स्थाने स्थापितः खङ्गः प्रकटीभूतः स तेन पथिकेन शस्त्ररहितेन तमेव खङ्गमादाय छागो व्यापादितो भक्षितश्चैतदजाकृपाणीयं । अन्योऽपि यो लौल्यात् शत्रोविश्वासं गच्छति स केनाप्युपायेन तेन हन्यते तस्माद्विश्वासः शत्रोर्न कार्यः । तथा च चाणिक्यः न विश्वसेदविश्वस्ते विश्वस्तेऽपि न विश्वसेत् । विश्वासाद्भयमुत्पन्नं मूलादपि निद्वंतति ॥१॥ अथ क्षणिकचित्तस्य यद्भवति तदाह-- क्षणिकचित्तः किंचिदपि न साधयति ।। १४१ ॥ टीका-क्षणिकं चित्तं यस्यासौ क्षणिकचित्त: सदैव चलित इत्यर्थः । स पुरुषः किंचिदपि स्तोकमपि प्रयोजनं न साधयति । तस्य किंचित्प्रयोजनं सिद्धिं न गच्छतीत्यर्थः । तथा च हारीत: चलचित्तस्य नो किंचित् कार्य किंचित्प्रसिद्धयति । सुसूक्ष्मपि तत्तस्मात्स्थिरं कार्य यशोथिभिः ॥ १ । अथ स्वतंत्रस्य राज्ञो यद्भवति तदाह-- स्वतंत्रः सहसाकारित्वात् सर्व विनाशयति ॥ १४२ ॥ टीका-यो राजा स्वतंत्रः केवलं भवति सचिवान् न करोति स सहसाकारित्वादात्माहं कृत्वा कुर्वाणोऽनर्हाणि, सर्व राज्यं विनाशयति । तस्माद्राज्ञा स्वतन्त्रेण न भाव्यम् । तथा च नारद: यः स्वतंत्रो भवेद्राजा सचिवान्न च पृच्छति । स्वयं कृत्यानि कुर्वाणः स राज्यं नाशयेध्रुवम् ॥ १॥ अथालस्यसमेतस्य यद्योग्यं तदाहअलसः सर्वकर्मणामनधिकारी ॥ १४३॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003150
Book TitleNiti Vakyamrutam Satikam
Original Sutra AuthorSomdevsuri
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari, Literature, Ethics, G000, & G999
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy