SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ १५० नीतिवाक्यामृतेrrrrrram टीका—यः पुरुषः सदैवालस्योपहतो भवति स सर्वेषु कृत्येषु राज्ञामनधिकारी अयोग्यः स्यात् तस्याधिकारः सूक्ष्मोऽपि न दीयते इति । तथा च राजपुत्रः-- आलस्योपहतान् योऽत्र विदधात्यधिकारिणः । सूक्ष्मेष्वपि च कृत्येषु न सिद्धयेत्तानि तस्य हि ॥१॥ अथ प्रमादिनो नृपस्य यद्भवति तदाहप्रमादवान् भवत्यवश्यं विद्विषां वशः ॥ १४४ ॥ टीका--यो राजा कृत्येषु प्रमादवान् भवति सोऽवश्यं निश्चयेन वश्यो भवति । केषां ? विद्विषां शत्रणां । तस्मामुजा सूक्ष्मेष्वपि कृत्येषु शैथिल्यं न कार्य । तथा च जैमिनि:--- सुसूक्ष्मष्वपि कृत्येषु शैथिल्यं कुरुतेऽत्र यः । स राजा रिपुवश्यः स्यात् प्रभूतयोगसोऽपि ? सन् ॥१॥ भूमुजा यत्कृत्यं तदाहकमप्यात्मनोऽनुकूलं प्रतिकूलं न कुर्यात् ॥ १४५ ॥ टीका-कमप्यात्मनोऽनुकूलं मित्रत्वेन वर्तमानं प्रतिकूलं शत्रु न कुर्याद्दोषनिश्चयः । तथा च राजपुत्रः मित्रत्वे वर्तमानं यः शत्रुरूपं क्रियान्नृपः। स मूखों भ्रम्यते राजा अपवादं च गच्छति ॥१॥ अथ भूमुजा यत्कृत्यं तदाहप्राणादपि प्रत्यवायो रक्षितव्यः ॥ १४६ ॥ १ प्रतिकूलं च न कुर्यात् इत्यपि पाठः । २ अन्यथेतिशेषः। पुस्तके कुर्यादोषनिश्चयः इति पाठः यदि कुयाद्दोषनिश्चय इत्येवं रूपेण प्रवर्त्यते तदा अन्यथेति शेषः इति कार्य। यदि कुर्यादेष निश्चय इत्येवं रूपेण प्रवर्त्यते तदा कुर्यात एप निश्चयः इति कर्तव्यं उभयथापि न हानिः ३ इदं विसन्धिपदं । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003150
Book TitleNiti Vakyamrutam Satikam
Original Sutra AuthorSomdevsuri
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari, Literature, Ethics, G000, & G999
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy