SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ मंत्रिसमुद्देशः । १५१ टीका - अथ प्रत्यवायशब्देन गुह्यमुच्यते तद्गुह्यं प्राणादपि जीवि - तव्यादपि रक्षणीयं यतः सूक्ष्ममपि च्छिद्रं विज्ञाय शत्रवः प्रविशन्ति तस्मात्तद्रक्षणीयं । तथा च भागुरि :- ---- आत्मच्छिद्रं प्ररक्षेत जीवादपि महीपतिः । यतस्तेन प्रलब्धेन प्रविश्य घ्नन्ति शत्रवः ॥ १ ॥ आत्मशक्तिमजानतो विग्रहः क्षयकाले कीटिकानां पक्षोथा१४७ ॥ नमिव ॥ टीका - आत्मशक्ति अजानन् यो विग्रहं करोति स आत्मक्षयं करोति । किमिव ? कीटिकानां पक्षोत्थानमिव । कस्मिन् ? क्षयकाले विनाशकाले । यथा कीटिकानां क्षयो भवति तथा पक्षोत्थानं सम्भवति । पार्थिवस्यापि क्षयकालो यदा भवति तदा बलवता सह विग्रहं करोति । तथा च गुरु: - अचलं प्रोन्नतं योऽत्र रिपुं याति यथाचलम् । शीर्णदन्तो निवर्तेत स यथा मत्तवारणः ॥ १ ॥ अथापद्ग्रस्तेन भूभुजा यत्कर्तव्यं तदाहकालमलभमानोऽपकर्तरि साधु वर्तेत ॥ १४८ ॥ टीका --- कालं राज्यसमयलक्षणं कर्तुमलभमानोऽपकर्तरि शत्रौ साधु वर्तेत च्छन्दोनुवृत्तिः कर्तव्येति । यदा शत्रुरात्मनः सकाशात् बलवान् भवति तदा तस्योपचारः कार्यः । तथा च भागुरि: —— बलवन्तं रिपुं दृष्ट्वा तस्य च्छन्दोनुवर्तयेत् । बलात्यास पुनस्तं च भिन्द्यात् कुंभमिवाश्मना ॥ १ ॥ अथ शत्रोरुपचारविषये दृष्टान्तमाह किन्नु खलु लोको न वहति मूर्ध्ना दग्धुमिन्धनं ॥ १४९ ॥ टीका --- एतत् किलायुक्तं यदुपचारं कृत्वा तस्यापि वधः क्रियते । एतच्च दृष्टान्तेन दृढयति । किन्नु अहो जनाः ! खलु निश्चयेन न वहति । www.jainelibrary.org Jain Education International For Private & Personal Use Only
SR No.003150
Book TitleNiti Vakyamrutam Satikam
Original Sutra AuthorSomdevsuri
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari, Literature, Ethics, G000, & G999
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy