SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ १५२ नीतिवाक्यामृते कोऽसौ ? जनः । किं तत् ? इन्धनं काष्ठसमूहं । केन मूर्ना मस्तकेन । किं कर्तुं ? दग्धुं दहनार्थ-~-अपि तु खलु निश्चयेन दहनार्थ वहति । तथा च शुक्रः-- दग्धुं वहति काष्ठानि तथापि शिरसा नरः । एवं मान्योऽपि वैरी यः पश्चाद्वध्यः स्वशक्तितः ॥१॥ अथ भूयोऽपि शत्रोरुपचारविषये दृष्टान्तमाहनदीरयस्तरूणामं हीन् क्षालयन्नप्युन्मूलयति ॥ १५० ॥ टीका-नदीरयः सरिद्वेग उन्मूलयति नाशं नयति । कान् ? अहीन् पदान् जटालक्षणान् । किं कुर्वन् ? क्षालयन् । केषां ? तरूणां वृक्षाणां तटाश्रितानां । किल यस्यांन्हिप्रक्षालनं क्रियते तदे(?)न तस्यैव नाशः क्रियते इति, वृक्षाणां या जटास्ताः पादा उच्यन्ते वचनच्छलात्। तथा च शुक्रः क्षालयन्नपि वृक्षाहीनदीवेगः प्रणाशयेत् । पूजयित्वाऽपि यद्वच्च शत्रुर्वध्यो विचक्षणैः ॥ १ ॥ अथोत्सेकयुक्तस्य यद्भवति तदाहउत्सेको हस्तगतमपि कार्य विनाशयति ॥ १५१ ॥ टीका-उत्सेकशब्देन गर्व उच्यते तं यः करोति शत्रुविषये नदीपुरवन्मृदुत्वेन वर्तते स हस्तगतमपि कार्य शत्रुनाशभिषये नाशयति गर्वात्परुषेण प्रजल्पति स सावधानो हस्तप्राप्तोऽपि गच्छति तस्माद्यस्य वधाय वाञ्छा क्रियते तस्य प्रियं वक्तव्यमिति । तथा च शुक्रः वचनं कृपणं ब्रूयात् कुर्यान्मार्जारचेष्टितम् । विश्वस्तमाखुवच्छत्रु ततस्तं तु निपातयेत् ॥१॥ अथापक्षेपोपायज्ञस्य भूपतेर्यद्भवति तदाह--- नाल्पं महद्वापक्षेपोपायज्ञस्य ॥ १५२ ॥ टीका-अपक्षेपशब्देन विनाशः कथ्यते । यो राजा शत्रुविनाशोपायान् अवस्कंदद्यातविषये पूर्वकान् ? (अवस्कन्दति तद्विनाशविषये Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003150
Book TitleNiti Vakyamrutam Satikam
Original Sutra AuthorSomdevsuri
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari, Literature, Ethics, G000, & G999
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy