________________
मंत्रिसमुद्देशः ।
१५३
Vvvivar~~~~~~~
उपायान् ) जानाति तस्य शत्रुविनाशं कुर्वतो नाल्पं न स्तोकं, न महद्वा प्रभूतं वा, सर्वमपि उपायौ (उपायेन ) व्यापादयति । तथा च गुरुः--
वधोपायान् विजानाति शत्रूणां पृथिवीपतिः। तस्याग्रे च महान् शत्रुस्तिष्टते न कुतो लघु ॥ १॥ अथ वधोपायज्ञस्य नृपतेदृष्टान्तमाहनदीपूरः सममेवोन्मूलयति तीरजतृणांहिमान् ॥ १५३ ॥ टीका-नदीवेगः समासयतः समं एककालमुन्मूलयति नाशयति । कान् ? तीरजतृणांहिमान्। एवं राजापि बहूपायेन शत्रून् लघून गुरूनपि नाशयति । तथा चे गुरु:
पार्थिवो मृदुवाक्येयः शत्रूनालपयेत्सुधीः। नाशं नयेच्छनस्तांश्च तीरजान् सिन्धुपूरवत् ॥१॥ अन्यदपि भूभुजा यत्कर्तव्यं तदाहयुक्तमुक्तं वचो बालादपि गृह्णीयात् ॥ १५४ ॥ टीका—ग्राह्यं, किं तत् ? युक्तं उक्तं न्यायगर्भ वचः । कस्मात् ? बालादपि शिशोरपि । एतदुक्तं भवति, बालोऽपि यदि युक्तं व्याहरति तद्ग्राह्य न च बालप्रलपितमिति तद्वचस्याज्यं । तथा च विदुरः
लघु मत्वा प्रलापेत बालाच्चापि विशेषतः । यत्सारं भवति तद्राह्यं शिलाहारी शिलं यथा ॥१॥ अथैतदपि प्रलापितं दृष्टान्तद्वारेण दृढयन्नाहरवेरविषये किन्न दीपः प्रकाशयति ॥ १५५ ॥
टीका-रवेरादित्यस्याविषये सूर्येऽस्तमिते किं न प्रकाशयति प्रकटीकरोति। कोऽसौ ? दीपः ज्योतिष्कः । अनेन दृष्टान्तेन बालेनापि युक्तमुक्तं गृह्णीयात् । तथा च बल्लभदेवः--
तेजसा संप्रयुक्तस्यातेनासौ ? नापि सिद्धयति । कार्य सूर्य प्रणष्टे तु ज्योतिष्केन यथा निशि ॥१॥
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org