SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ १५४ नीतिवाक्यामृते अथ भूयोऽपि बालप्रलपितप्रतिष्ठार्थ दृष्टान्तमाह-- अल्पमपि वातायनविवरं बहुनुपलम्भयति ॥ १५६ ॥ टीका-( वातायनविवर ) गवाक्षलक्षणं लध्वपि बहूनुपलम्भयति प्रचुर प्रकटं करोति, एवं बालोऽपि यत्किचिद्वदति नयर्गर्भ तद्ग्राह्यमिति । तथा च हारीतः गवाक्षविवरं सूक्ष्मं यद्यपि स्याद्विलोकितं । प्रकाशयति यद्भरि तद्वद्वालप्रजल्पितम् ॥१॥ अथ निरर्थकं प्रोच्यमाना वाचो यत्कुर्वन्ति तदाह पतिवरा इव परार्थाः खलु वाचस्ताश्च निरर्थकं प्रकाश्यमानाः शपयन्त्यवश्यं जनयितारं ॥ १५७ ॥ ___टीका-निरर्थकं व्यर्थ प्रकाश्यमानाः प्रोच्यमाना: खलु निश्चयेन शपयन्ति वाच्यतां नयन्ति । कं? जनयितारं वक्तारं । का इव ? पतिवरा इव पतिवृतो यकाभिः पतिंवरा अभीष्टनरदत्ता आत्मशरीराः । पुनरपि किंविशिष्टाः? परार्था अन्यदेया इति कृत्वा य ताः सत्यो यथा तं जनयितारं शपयन्ति अनिष्टवचनैर्निर्भर्त्सयन्ति तथा पुरुषोऽपि यो व्यर्थं वदति तं वा गिरः शपयन्ति हास्यतां वा नयन्तीत्यर्थः । तथा च वर्ग:-- वृथालापं च यः कुर्यात् स पुमान् हास्यतां ब्रजेत् । पतिंवरा पिता यद्वदन्यस्यार्थे वृथादनु ?॥१॥ अथ मूर्खस्याने जल्पितं यद्भवति तदाह-- तत्र युक्तमप्युक्तमयुक्तसमं यो न विशेषज्ञः ॥ १५८ ॥ टीका ----यः पुरुषो विशेपं न जानाति एतन्ममानेन हितमुक्तं तस्यान यत्प्रोच्यते तदयुक्तं युक्तमपि भवति । अथवा अनुक्तसमं तत्किल न जल्पितं, तस्मान्मूर्खस्योपदेशो न देयः । तथा च वर्ग:---- अरण्यरुदितं तत्स्यात् यन्मूर्खस्योपदिश्यते । हिताहितं न जानाति जल्पितं न कदाचन ॥१॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003150
Book TitleNiti Vakyamrutam Satikam
Original Sutra AuthorSomdevsuri
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari, Literature, Ethics, G000, & G999
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy