________________
मंत्रिसमुद्देशः ।
अथाश्रोतुः पुरतो वदन् यथा पुरुषो जनैर्मन्यते तदाह
स खलु पिशाचकी वातकी वा यः परेऽनर्थिनि वाचमुद्दीरयति ।। १५९ ।।
टीका —— परे जनऽनर्थिनि अश्रोतुकामे य उद्दीरयति वदति । कां ? वाचं वाणीं । स किंविशिष्ट जनैर्मन्यते ? खलु निश्चयेन पिशाचकी संजातभूतग्रहः, वातक वा सन्निपातयुक्तो वा तस्मादश्रोतुः पुरतो विदुषा न वक्तव्यं । तथा च भागुरि:
अश्रोतुः पुस्तो वाक्यं यो वदेदविचक्षणः । अरण्यरुदितं सोऽत्र कुरुते नात्र संशयः ॥ १ ॥ अथ नयहीनस्य या वृद्धिस्तस्याः स्वरूपमाहविध्यायतः प्रदीपस्येव नयहीनस्य वृद्धिः ॥ १६० ॥ टीका - नयहीनस्य पुरुषस्य चौर्यादिभिरकृत्यैर्या वृद्धिर्भवति । सा किंविशिष्टा ? प्रदीपस्येव । किंविशिष्टस्य ? विध्यायतो विनाशं गच्छतः । यथा दीपस्य विनाशकालेऽधिका वृद्धिर्भवति तथा पुरुषस्याप्यन्यायोपार्जिता समृद्धिः । तथा च नारदः
१५५
___
Jain Education International
चौर्यादिभिः समृद्धिर्या पुरुषाणां प्रजायते । ज्योतिष्कस्येव सा भूतिर्नाशकाल उपस्थिते ॥ १ ॥ अथ स्वामिपदमभिलषतां भृत्यानां यद्भवति तदाहजीवोत्सर्गः स्वामिपदमभिलषतामेव ।। १६१ ॥ टीका - स्वामिनः पदं स्वामिस्थानमभिलषतां वाञ्छतां जीवोत्सर्ग एव विनाश एव तस्मात्स्वामिनः पदं नाभिलपनीयं । तथा च नारदःस्वामिस्थानं च यो मूर्खो वाञ्छति स्वसमृद्धये । स मृत्युमुपगृह्णाति गर्भमश्वतरी यथा ॥ १ ॥
अथ बहुदोपेषु विनाशे कृते यद्भवति तदाह
For Private & Personal Use Only
ww
www.jainelibrary.org