SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ नीतिवाक्यामृते बहुदोषेषु क्षणदुःखप्रदोऽपायोऽनुग्रह इव ।। १६२ ॥ टीका--बहुदोषेषु पुरुषेषु अवध्येषु योऽपायो विनाशः । स किंविशिष्टः ? क्षणदुःखप्रदः मुहूर्तदुःखप्रदो भवति पश्चादनुग्रह इव श्रेयसे इव स मान्यः यतस्तेषां सकाशात् वृद्धिर्भवति । तथा च हारीतः अवध्या अपि वध्यास्ते ये तु पापा निजा अपि । क्षणदुःखे च तेषां च पश्चात्तच्छेयसे भवेत् ॥१॥ अथ स्वामिदोपयुक्तानां यत्कृत्यं तदाहस्वामिदोषस्वदोषाभ्यामुपहतवृत्तयः क्रुद्धभीतलुब्धमानिनः कृत्याः ॥१६३ ॥ टीका---येऽमात्याः स्वामिदोपस्वदोषाभ्यां उपहतवृत्तयो भवन्ति स्वामिना क्रुद्धेनोपहतवृतयो भवन्ति किं स्वदोषतो वा तैः कश्चित्स्वामिनोऽपराधः कृतो भवति ततश्च स्फेटितवृत्तयो भवन्ति । किंविशिष्टास्ते ? कृत्याः कृत्यस्वरूपा भवन्ति कृत्याशब्देनाथर्वणमंत्रोंमे कृते यद्भतमुत्पद्यते वैश्वनरात् सा कृत्येत्युच्यते वध्यात्मकं, स्फटितवृत्तयोऽमात्या अपि ताटक्स्वरूपा बधात्मका भवन्ति तत्कथं ते उपचरणीयाः, ते चतुर्विधाः क्रुद्धलुब्धानां त्यागो भीतानामभयप्रदानं, मानिनां सत्कृतिः पूजेति तेषामेते वशोपायाः, तस्मात्कार्या नीतिमता नोपेक्षणीयाः। तथा च नारद: नोपेक्षणीयाः सचिवाः साधिकाराः कृताश्च ये। योजनीयाः स्वकृत्ये ते न चेत्स्युर्वधकारिणः ॥१॥ अथ प्रकृतीनां नृपेण यत्कर्तव्यं तदाहक्षयलोभविनाशकारणानि प्रकृतीनां न कुर्यात् ।। १६४ ॥ टीका-न कुर्यात् , कानि ? क्षयलोभविरागकारणानि । कासां ? प्रकृतीनाममात्यादीनां सदा सेवकानां क्षयकारणं विनाशकारणं लोभकारणं। १ कचिद्विनाश इति क्वचिच विराग इति पाठः पुस्तके । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003150
Book TitleNiti Vakyamrutam Satikam
Original Sutra AuthorSomdevsuri
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari, Literature, Ethics, G000, & G999
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy