SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ मंत्रिसमुद्देशः। १५७ तासां सकाशात् लोभेन किंचिद्बाह्यं तथा तासां विरागकारणं न कार्य येन विरागो भवतीति । तथा च वशिष्ट:-- क्षयो लोभो विरागश्च प्रकृतीनां न शस्यते । यतस्तासां प्रदोषेण राज्यवृद्धिः प्रजायते ॥१॥ अथ प्रकृतीनां कोपो यादग्भवति तदाहसर्वकोपेभ्यः प्रकृतिकोपो गरीयान् ॥ १६५ ॥ टीका-ये चान्ये कोपाः शत्रुपूर्वकास्तेषां सकाशात् प्रकृतिकोपो गरीयान् का (क) ष्टतरः । तथा च राजपुत्रः-- राज्ञां छिद्राणि सर्वाणि विदुः प्रकृतयः सदा । निवेद्य तानि शत्रुभ्यस्ततो नाशं नयन्ति तम् ॥१॥ अथ ये दोषे कृतेऽप्यवध्यास्तेषां यक्रियते तदाह अचिकित्स्यदोषदुष्टान् खनिदुर्ग सेतुबन्धाकरकर्मान्तरेषु क्लेशयेत् ॥ १६६॥ टीका- येषां दोषा अपराधा अचिकित्स्या वधबन्धवर्जितास्तेन (तैः ) दोषेण ( दोषैः ) ये दुष्टा द्रोहितारः, तेषां किं कार्य ? तान् क्लेशयेत् व्यसनाभिभूतान् कारयेत् । केषु ? खनिदुर्गसेतुबन्धाकरकर्मान्तरेषु खनिशब्देन तडागादिखातमुच्यते, दुर्ग प्रसिद्धं, सेतुबन्धो नदीपूरबन्धः, आकारो धातूनामुत्पत्तिस्थानं एतेषां यानि कर्माणि तेषां मध्ये नियोजयेत् तत्र स्थिता द्रोहादिकं न कुर्वन्ति । तथा च शुक्रः अवध्या ज्ञातयो ये च बहुदोषा भवन्ति च । कर्मान्तरेषु नियोज्यास्ते येन स्युव्र्यसनान्विताः ॥१॥ अथ यैः सुखगोष्ठी सुखं न कुर्यात्तानाह-- अपराध्यैरपराधकैश्च सह गोष्ठीं न कुर्यात् ॥ १६७ ॥ टीका-ये पुरुषा अपराध्या भवन्ति येषां अपराधः कार्यस्तैः सह कथां गोष्ठी न कुर्यात् । तथा च नारदः-- Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003150
Book TitleNiti Vakyamrutam Satikam
Original Sutra AuthorSomdevsuri
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari, Literature, Ethics, G000, & G999
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy