SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ नीतिवाक्यामृते परिभूता नरा ये च कृतो यैश्च पराभवः । न तैः सह क्रियाद्गोष्टीं य इच्छेद्भूतिमात्मनः ॥ १॥ अथ तैः सह गोष्टी सुखेन कृतेन यद्भवति तदाह . १५८ गृहप्रविष्टवत् सर्वव्यसनानामागमनद्वारं ।। १६८ ।। टीका - ते पूर्वोक्ता अपराध्या अपराधकाः सर्वव्यसनानि प्रयच्छन्तीत्यर्थः । हि शब्दो यस्मादर्थे स्फुटार्थे वा । कथं सर्वव्यसनानामागमनद्वारमित्याह — गृहप्रविष्टसर्पवत् यथा गृहप्रविष्टसप व्यसनप्रदो भवति तथा तेऽपि गृहप्रविष्टाः सन्तः । तथा च शुक्रः यथाहिर्मन्दाराविष्टः करोति सततं भयं । अपराध्याः सदोषाश्च तथा तेऽपि गृहागताः ॥ १ ॥ अथ यस्य पुरुषस्य नाग्रतस्तिष्ठेत्तमाह न कस्यापि क्रुद्धस्य पुरतस्तिष्ठेत् ॥ १६९ ॥ टीका -- क्रुद्धस्य पुरुषस्य कस्यापि पुरो न तिष्ठेत् । एषा नीतिर्यतः क्रोधान्धधीः पुरुषो यं कमपि पुरः स्थितं पश्यति तं व्यापादयति । तथा च गुरुः यथान्धः कुपितो हन्यात् यच्चैवाग्रे व्यवस्थितं । क्रोधान्धोऽपि तथैवात्र तस्मात्तं दूरतस्त्यजेत् ॥ १ ॥ अथ क्रुद्धस्य पुरतः स्थितस्य यद्भवति तदाह- ऋद्धो हि सर्प इव यमेवाग्रे पश्यति तत्रैव रोषविषमुत्सृजति ॥ १७० ॥ टीका --- सर्प इव यथा सर्पः कुपितोऽपराधरहितेऽपि प्राणिनि विषमुत्सृजति तस्मात्तं दूरतस्त्यजेत् । गतार्थमेतत् । अथ येन गृहायातेन न किंचित्सिद्ध्यति तदर्थमाह Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003150
Book TitleNiti Vakyamrutam Satikam
Original Sutra AuthorSomdevsuri
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari, Literature, Ethics, G000, & G999
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy