________________
पुरोहितसमुद्देशः ।
१६७
टीका –स शिष्यो ब्रह्मचारािण गुरुपुत्रे बान्धव इव स्निह्येत् स्नेह कुर्यात् । यथा बान्धवो भ्राता भ्रातुः स्नेहं करोति तथा शिष्योऽपि ब्रह्मचारिणः । तथा च मनुः-- . या भ्रातुःप्रकर्तव्यः स्नेहोऽत्र निबन्धना।
तथा स्नेहः प्रकर्तव्यः शिष्येण ब्रह्मचारिणः॥१॥ अथ ब्रह्मचारिलक्षणमाहब्रह्मचर्यमाषोडशाद्वर्षात्ततो गोदानपूर्वकं दारकर्म चास्य॥२८॥ समविद्यैः सहाधीतं सर्वदाभ्यस्येत् ॥ २९ ॥ गृहदौःस्थित्यमागन्तुकानां पुरतो न प्रकाशयेत् ॥ ३० ॥ परगृहे सर्वोऽपि विक्रमादित्यायते ॥ ३१ ॥ स खलु महान् यः स्वकार्येष्विव परकार्येषुत्सहते ॥ ३२ ॥ परकार्येषु को नाम न शीतलः ॥ ३३ ॥ राजासन्नः को नाम न साधुः ॥ ३४ ॥ अर्थपरेष्वनुनयः केवलं दैन्याय ॥ ३५॥ को नामार्थार्थी प्रणामेन तुष्यति ॥ ३६ ।।
आश्रितेषु कार्यतो विशेषकरणं प्रियदर्शनालापाभ्यां सर्वत्र समवृत्तिस्तंत्रं वर्धयत्यनुरंजयति च ॥ ३७॥
त धनादर्थग्रहणं मृतमारणमिव ॥ ३८॥ अप्रतिविधातरि कार्यनिवेदनमरण्यरुदितमिव ॥ ३९ ॥
१ श्लोकोऽयं मनुस्मृतौ नास्ति । २ सप्ताक्षरप्रमितोऽयं द्वितीयः पादः, अशुद्धश्चावभाति। ३ ततो गोदानं । नित्यं चास्य समविद्यैः इत्यादि पाठः मु-पुस्तके । ४ विक्रमादित्यो नाम प्रसिद्धो राजा तद्वदाचरति । ५ 'स्वकार्येष्विव' मु-पुस्तके नास्ति । ६ स्वकार्येषू मु-पुस्तके । ७ नेति लिखितमूल-पुस्तके नास्ति । ८ प्रणयेन मु-पुस्तके । ९ 'विशेषकारणेऽपि दर्शनप्रियालापनाभ्यां' मु-पुस्तके । १० अल्पधनात् दरिद्रादित्यर्थः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org