________________
१५०
नीतिवाक्यामृतेrrrrrram
टीका—यः पुरुषः सदैवालस्योपहतो भवति स सर्वेषु कृत्येषु राज्ञामनधिकारी अयोग्यः स्यात् तस्याधिकारः सूक्ष्मोऽपि न दीयते इति । तथा च राजपुत्रः--
आलस्योपहतान् योऽत्र विदधात्यधिकारिणः ।
सूक्ष्मेष्वपि च कृत्येषु न सिद्धयेत्तानि तस्य हि ॥१॥ अथ प्रमादिनो नृपस्य यद्भवति तदाहप्रमादवान् भवत्यवश्यं विद्विषां वशः ॥ १४४ ॥
टीका--यो राजा कृत्येषु प्रमादवान् भवति सोऽवश्यं निश्चयेन वश्यो भवति । केषां ? विद्विषां शत्रणां । तस्मामुजा सूक्ष्मेष्वपि कृत्येषु शैथिल्यं न कार्य । तथा च जैमिनि:---
सुसूक्ष्मष्वपि कृत्येषु शैथिल्यं कुरुतेऽत्र यः ।
स राजा रिपुवश्यः स्यात् प्रभूतयोगसोऽपि ? सन् ॥१॥ भूमुजा यत्कृत्यं तदाहकमप्यात्मनोऽनुकूलं प्रतिकूलं न कुर्यात् ॥ १४५ ॥
टीका-कमप्यात्मनोऽनुकूलं मित्रत्वेन वर्तमानं प्रतिकूलं शत्रु न कुर्याद्दोषनिश्चयः । तथा च राजपुत्रः
मित्रत्वे वर्तमानं यः शत्रुरूपं क्रियान्नृपः।
स मूखों भ्रम्यते राजा अपवादं च गच्छति ॥१॥ अथ भूमुजा यत्कृत्यं तदाहप्राणादपि प्रत्यवायो रक्षितव्यः ॥ १४६ ॥
१ प्रतिकूलं च न कुर्यात् इत्यपि पाठः । २ अन्यथेतिशेषः। पुस्तके कुर्यादोषनिश्चयः इति पाठः यदि कुयाद्दोषनिश्चय इत्येवं रूपेण प्रवर्त्यते तदा अन्यथेति शेषः इति कार्य। यदि कुर्यादेष निश्चय इत्येवं रूपेण प्रवर्त्यते तदा कुर्यात एप निश्चयः इति कर्तव्यं उभयथापि न हानिः ३ इदं विसन्धिपदं ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org