SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ ६ आन्वीक्षिकी- समुद्देशः । अथाध्यात्म योगलक्षणमाहआत्ममनोमरुत्तत्वसमेतायोगलक्षणो ह्यध्यात्मयोगः ॥ १ ॥ टीका - आत्मा चिद्रूपः, मनः प्रसिद्धं मरुतः शरीरस्था वायवः, तत्त्वं पृथिव्यादि तेषां समं एकहेलया समतालक्षणः स हि स्फुटं अध्यामयोगः कथ्यते । तथा चर्षिपुत्रकः- आत्मा मनो मरुत्तत्त्वं सर्वेषां समता यदा । तदा त्वध्यात्मयोगः स्यान्नराणां ज्ञानदः स्मृतः ॥ १ ॥ तथा च व्यासः -- न पद्मासनतो योगो न च नासाग्रवीक्षणात् । मनसश्चेन्द्रियाणां च संयोगो योग उच्यते ॥ १ ॥ अथ अध्यात्मज्ञस्य राज्ञो यद्भवति तदाह--. अध्यात्मज्ञो हि राजा सहजशारीरमानसागन्तुभिर्दोषैर्न बाध्यते ।। २ ।। " टीका - यो राजाध्यात्मज्ञो भवति, तस्य किं स्यात्, एतेन दोषचतुष्टयेन स राजा न बाध्यते नाश्लिष्यते । केन केन तावत् सहजेन सत्वं मुक्त्वा रजसा तमसा च कश्चित् प्रकृत्या राजसो भवति, कश्चित्तामसः, कश्चिदुभाभ्यां सहितः स्यात् स ताभ्यां न बाध्यते । तथा शारीराश्च ये दोषा रोगसम्भवगलगण्डादयः । तथा मानसाश्च ये दोषाः परकलत्रादयस्तैरपि न बाध्यते । तथागन्तुकैर्भाविभिरपि न बाध्यते । तथा च नारदः १ समसमायोग इति मु-मू-पुस्तके | Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003150
Book TitleNiti Vakyamrutam Satikam
Original Sutra AuthorSomdevsuri
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari, Literature, Ethics, G000, & G999
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy